पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
22
[अयोध्याकाण्डः
परिषदनुमोदनम्

 व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।
 उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४१ ॥
 सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ।
 स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ॥ ४२ ॥
 [१]सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ।
 उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४३ ॥

 विग्रहः-वृथा कलहः ॥ ४३ ॥

 सुभ्रूरायत[२]ताम्राक्षः साक्षाद्विष्णुरिव स्वयम् ।
 रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ ४४ ॥
 प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः ।
 शक्तस्त्रैलोक्यमध्येको भोक्तुं किं नु महीमिमाम् ॥ ४५ ॥
 नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ।
 हन्त्येव [३]नियमाद्वध्यानवध्ये न च कुप्यति ॥ ४६ ॥
 युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ।

 यत्र तुष्यतीति। यस्मिन् विषये सन्तोषं तद्गुणतः प्राप्नोतीत्यर्थः ॥

 शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ॥ ४७ ॥
 गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
 तमेवं गुणसंपन्नं रामं सत्यपराक्रमम् ॥ ४८ ॥


  1. श्रेयसां सम्यग्योक्ता-संपादकः । न विगृह्मकथारुचिः, 'न विगृह्य कथां कुर्यात्' इति निषिद्धयोर्जल्पवितण्डयोर्निवृत्तरागः गो.
  2. अत्र पक्ष्मादिबहिर्देशविवक्षया ताम्रत्वं मन्तव्यम् ।
  3. नियमात्–नियमेन गो.