पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
21
संहृष्टाः प्रशशंसुस्ते दिव्यान् रामगुणान् तदा

 प्रियवादी च भूतानां सत्यवादी च राघवः ।
 बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३३ ॥
 तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ।
 देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३४ ॥
 सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
 गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३५ ॥
 कल्याणाभिजनः साधुरदीनात्मा महामतिः ।
 द्विजै[१]रभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ॥ ३६ ॥
 यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ।
 गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ ३७ ॥
 सङ्ग्रामात्पुनरागमम्य कुञ्जरेण रथेन वा ।
 पौरान्[२] सवयसान् नित्यं कुशलं परिपृच्छति ॥ ३८ ॥

 सवयसानिति । ‘अच्’ इति योगविभागादच् समासान्तः ॥

 पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।
 निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ ३९ ॥
 [३]शुश्रूषन्ते च वः शिष्याः [४]कञ्चित्कर्मसु दंशिताः ।
 इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ ४० ॥

 शुश्रूषन्ते च वः शिष्याः इति उपाध्यायान् प्रति प्रश्नः । कर्मसु दंशिता वः शुश्रूषन्ते इति क्षत्रवृद्धान् प्रति प्रश्नः । दंशिताः -कवचिताः भृत्या इति शेषः ॥ ४० ॥


  1. अभिविनीतः–शिक्षितः ।
  2. स्वजनवन्नित्यं-ङ. च.
  3. 'शुश्रूषन्ते च वः शिष्याः' इति ब्राह्मणान् प्रति प्रश्नः । वर्मसु दंशिताः-अवहिताः भृत्याः वः सेवन्त इति क्षत्रियान् प्रतिप्रश्नः-ति.दंशिताः-सन्नद्धाः शिष्याः कर्मसु वः शुश्रूषन्ते कच्चिदिति वाऽन्वयः । ‘सन्नद्धो वर्मितः सज्जः दंशितः' इत्यमरः ।
  4. कच्चिद्वर्मसु-च.कच्चिद्धर्मेषु-ङ. च.