पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
20
[अयोध्याकाण्डः
परिषदनुमोदनम्

 ते तमूचुर्महात्मानं पौरजानपदैः सह ।
 बहवो नृप ! कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ २६ ॥
 गुणान् गुणवतो देव ! देवकल्पस्य धीमतः ।
 प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान् श्रृणु ॥

 देव-राजन्निति यावत् ॥ २७ ॥

 दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।
 [१]इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ! ॥ २८ ॥
 रामः सत्पुरुषो लोके सत्यधर्म[२]परायणः ।
 साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ २९ ॥

 रामाद्विनिर्वृत्त इति । रामेणैव प्रतिष्ठापित इत्यर्थः ॥ २९ ॥

 [३]प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ।
 बुध्या बृहस्पतेस्तुल्यो वीर्ये[४]साक्षाच्छचीपतेः ॥ ३० ॥

 वसुधायाः इत्याद्याः प्रथमसर्गव्याकृतचराः ॥ ३० ॥

 धर्मज्ञः सत्यसन्धश्च शीलवा[५]ननसूयकः ।
 क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥
 मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ ३२ ॥

 क्षमेरूदित्वात् पक्षे नेट् । क्षान्तः इति । अक्ङित्यपि दीर्घश्छान्दसः । भव्यः-कुशलः ॥ ३२ ॥


  1. इक्ष्वाकुभ्यः-इक्ष्वाकुवंश्येभ्यः सर्वेभ्यः अतिरिक्तः समधिकः, ' अतिरिक्तः समधिकः इत्यमरः-गो.
  2. पराक्रमः- ङ.
  3. रामनिष्ठगुणसमुदायस्यैकत्रासंभवात् एकैकगुणयोगेन
    चन्द्रादीन् दृष्टान्तयन्ति–प्रजेति-गो.
  4. साक्षात् —तुल्यः, 'साक्षात् प्रत्यक्षतुल्ययोः'
    इत्यमरः- गो.
  5. न विद्यते असूया, अन्यविषयिणी, यस्य सः ! उत्तरत्र न विद्यते असूया, स्वविषयिणी अन्यकृता, यस्य स तथोक्त इति न पुनरुक्तिः-ती.