पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
19
इति ब्रुवन्तं राजानं प्रत्यनन्दन् मुदा नृपाः

 अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ! ।
 स राजं युवराजानं अभिषिञ्चस्व पार्थिवम् ॥ २१ ॥

 अनेकेत्यादिपदे बहुव्रीहिः । युवराजानमिति । अनित्यत्वान्न टच् ॥

 [१] इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
 गजेन महताऽऽयान्तं रामं छत्रावृताननम् ॥ २२ ॥
 इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
 अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २३ ॥

 अजानन्निवेति । रामाभिषेकः सर्वसम्मत इति जानन्नेवेति शेषः ॥

 श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।
 राजानः ! संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ २४ ॥

 हे राजानः मे वचनं श्रुत्वा तन्निर्बन्धादेव केवलं रामं पतिमिच्छथ ? उत वस्तुतः ? इति मे संशयः । अतः किमिदमिति तत्त्वतो ब्रूत ॥ २४ ॥

 [२]कथं नु मयि धर्मेण पृथिवीमनुशासति ।
 भवन्तो द्रष्टुमिच्छन्ति युवराजं [३]ममात्मजम् ॥ २५ ॥

 का ते संशयप्रवृत्तिरित्यतः-कथन्वित्यादि । प्रौढा यूयं प्रौढे धर्मवृद्धे मयि चिरपरिचितराजभावाः बालं कथं मयि जीवति राजत्वेन द्रक्ष्यथेत्यर्थः ॥ २५ ॥


  1. ननु रक्षके मयि विद्यमाने किमर्थं रामाभिषेकोऽपेक्ष्यत इत्याशङ्कायां न हि वयं रक्षणार्थं तमपेक्षामहे, किन्तु सौन्दर्यविशेषानुभवार्धमित्याहुः-इच्छाम इति । एतैरभिषेकानन्तर-भाविभिर्विशेषणैः अभिषेकः कर्तव्य इति व्यञ्जनावृत्या प्रार्थ्यते-गो.
  2. प्रश्नान्तरं वेदम्.
  3. महाबलम्-ङ्.