पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
18
[अयोध्याकाण्डः
परिषदनुमोदनम्

कुत इत्यतः-विमर्देति । पूर्वापरपक्षसङ्घर्षणवत्त्वेन हेतुना अभ्यधिकोदया-अधिकार्थप्रादुर्भाववती ॥ १६ ॥

 इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् [१]नृपा नृपम् ।
 वृष्टिमन्तं महामेघं [२]नर्दन्त इव बर्हिणः ॥ १७ ॥

महामेघमिति । दृष्ट्वेति शेषः ॥ १७ ॥

 [३]स्निग्धोऽनुनादी संजज्ञे तत्र हर्षसमीरितः ।
 [४]जनोद्धुष्टेन सन्नादो मेदिनीं कम्पयन्निव ॥ १८ ॥

 स्निग्धः-हर्षस्वनः सामन्तकृतो जज्ञे आस्थान्याम् । बहिस्तु जनोद्धुष्टेन सन्-सम्भवन्नादः महीं कम्पयन्निव जज्ञे ॥ १८ ॥

 तस्य [५]धर्मत उत्पन्नं भावमाज्ञाय सर्वशः ।
 ब्राह्मणा [६]बलमुख्याश्च पौरजानपदैः सह ॥ १९ ॥

 धर्मत उत्पन्नं भावं-अभिप्रायं बलं-चतुरङ्गबलं, ब्राह्मणविशेषणत्वे बलं-तपोबलं । चकारान्नृपाश्च, तेषां प्रागुक्तरूपो बलशब्दार्थः ॥ १९ ॥

 समेत्य मन्त्रयित्वा तु [७]समतां गतबुद्धयः ।
 ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं [८]नृपम् ॥ २० ॥

 गतबुद्ध्य इति गमकत्वात् समासः । ज्ञात्वा-पुनः पुनः पर्यालोच्येत्यर्थः ॥ २० ॥


  1. नृपात्मजम्-ङ.
  2. नृत्यन्त-ङ.
  3. तत्र सभायां स्निग्धः-स्नेहाभिव्यञ्जकः अनुनादी-प्रतिध्वनिकारी जनौघोद्धुष्टः-जनसमूहोत्पादितः सन्नादः-समीचीनशब्दः-संजज्ञे । न केवलं राजान एव, सर्वेऽपि जनास्तच्छ्रुत्वा सन्तुष्टा इत्यर्थः-गो.
  4. जनौघोद्धुष्टसन्नादः विमानं-ङ. च.
  5. धर्मार्थविदुषः-ङ.
  6. जनमुख्याश्च-ङ.
  7. एकाभिप्रायवन्त इति भावः ।
  8. वचः-ङ.