पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः ]
17
भवन्तो मेऽनुमन्यन्तां इदं, किं करवाण्यहम्

 स वै अनुरूपो नाथः, अस्मद्राज्यस्येति शेषः ; न केवलमेतावत्, अपि तु-त्रैलोक्यमपीत्यादि । येनेति । प्रसिद्धेनेति यावत् ॥

 [१]अनेन श्रेयसा सद्यः [२]संयोज्यैवमिमां महीम् ।
 गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ १४ ॥

 श्रेयसाऽनेन-ईयसुनि 'प्रशस्यस्य श्रः' इति श्रादेशः, प्रशस्तेनानेन रामेणेत्यर्थः । महीं संयोज्य गतक्लेशः ॥ १४ ॥

 [३]यदीदं मेऽनुरूपार्थं मया साधु [४]नियन्त्रितम् ।
 [५]भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ १५ ॥

 यदीत्यादि । मया यन्नियन्त्रितं-नियमितं मद्विषयकरूपं कार्यं तद्यदि साधु भवतां अनुरूपार्थं-अनुकूलप्रयोजनावहं च तदा भवन्तो मे इदमनुमन्यन्ताम् । कुतोऽस्मदनुमतिर्महाराजस्य तवेत्यतः-कथमित्यादि । [६]अहं कथं करवाणि ? विना युष्माकमनुमतिमिति शेषः ॥

 यद्यप्येषा मम प्रीतिः, हितमन्यद्विचिन्त्यताम् ।
 अन्या मध्यस्थचिन्ता हि विमर्दास्यधिकोदया ॥ १६ ॥

 ननु त्वदभ्यधिकः कः हिताहितविचारसमर्थः ? इत्यत्राह-यद्यपीत्यादि । एषा चिन्ता यद्यपि मम प्रीतिः-प्रीतिमात्र विजृम्भिता, अथापि वास्तवं अन्यत्-अन्यादृशं हितं अस्ति चेत् तत् विचिन्त्यताम् । ननु कथमभ्यधिकदर्शनशङ्केत्यतः–अन्येत्यादि । मध्यस्थाः-रागरोष-वियुक्ताः तत्त्वचिन्तकाः; तेषां चिन्ता, अन्या तु-अन्यादृश्येव ।


  1. इमां-महीं तस्मिन् ज्येष्ठे सुते निवेश्य-अनेन तन्निवेशरूपेण श्रेयसा महीमेवं सद्यः संयोज्य-गो.
  2. संयोक्ष्येह-ङ.
  3. मे अनुरूपार्थं मया साधु सुमन्त्रितं यदि-इति पाठान्तरे
    योजना ।
  4. सुमन्त्रितं ङ.
  5. भवन्तोऽप्यनु-ङ.
  6. स्वकर्तव्यप्रकारप्रश्नो वाऽयम् ।