पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
29
सुमन्त्रमब्रवीद्राजा रामोऽत्रानीयतामिति

प्रीतिर्मानसी । हर्षस्तदुद्रेकमूलो मुखविकासादिः । शेषं पार्थिवाय निवेद्ये[१]त्यन्यः । इदं तु जगत्पतिमभिगम्येत्यनेनान्वितम् । ल्यपः पूर्वकालार्थत्वात् । अभिगमात् पूर्वं निवेदनायोगात् । जगत्पतिमभिगम्य निवेद्येत्येतावतैव सिद्धेः पार्थिवायेति चानन्वितम् । अपि च राज्ञे शेषं निवेद्येत्येतावतैव सिद्धेः पुनरब्रूतामिति चासंगतम् । तारतम्योचितानुचितानभिज्ञमन्दान् प्रति किञ्चित्पररीतिप्रदर्शनम् । सुधियस्तूभयं पर्यालोच्य स्वयमेव युक्तायुक्तं ज्ञास्यन्ति ॥ २२ ॥

 ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्
 रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ २३ ॥
 स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।
 रामं तत्रानयांचक्रे रथेन रथिनां वरम् ॥ २४ ॥

 [२]प्रतिज्ञाय-उक्त्वा ॥ २४ ॥

 अथ तत्र [३]सहासीनाः तदा दशरथं नृपम् ।
 प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ २५ ॥
 [४]म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः ।
 उपासांचक्रिरे सर्वे तं देवा इव वासवम् ॥ २६ ॥

 अथ तत्रेति । 'प्रासादस्थो ददर्श' इति वक्ष्यमाणत्वादिह तत्रेति प्रासाद इत्यर्थः । तथा सहासीना इति-प्रासाद एव सहासीना इत्यर्थः । प्राच्या इत्यादौ 'द्युप्राक्' इत्यादिना यदादयः शैषिक-


  1. गोविन्दराजः, तीर्थो वा । अत्र श्लोकद्वयमपि भिन्नं भिन्नं वाक्यमिति गोविन्दराजाशयः । तथोक्तम् 'पूर्वश्लोके निवेद्येत्यनेन शेषसंपादनविषयनिवेदनमुक्तम् । अब्रूतामिति तु सकलसिद्धिविषयमिति न पुनरुक्तिः'-गो.
  2. अङ्गीकृत्येति वार्थः ।
  3. समासीना-ङ.
  4. म्लेच्छाश्चार्याश्च-ङ.च.