पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६ सर्गः]
519
तत्र ते न्यवसन् हृष्टाः क्रीडन्तः सुसुखं गिरौ

 इष्ट्वा देवगणान् सर्वान् [१]विवेशावसथं शुचिः ।
 वभूव च मनोह्लादः रामस्यामिततेजसः ॥ ३० ॥
 वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च ।
 वास्तुमंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ ३१ ॥
 जपं च न्यायतः कृत्वा [२]स्नात्वा नद्यां यथाविधि ।
 पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ ३२ ॥

 पापसंशमनं-'पञ्चसूना गृहस्थस्य' इति प्रसिद्धपापसंशमनसाधनश्रुतं बलिं–वैश्वदेवपूर्वकं बलिहरणम् । कृत्वेत्यादिः उपसंहाररूपेण वादः ॥ ३२ ॥

 वेदिस्थल [३]विधानानि [४]चैत्यान्यायतनानि च ।
 आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ ३३ ॥

 वेदिस्थलानां-बलिहरणवेदिस्थलानां अष्टदिग्वर्तिनां विधानानि तथा । चैत्यं-गणपत्यायतनम् । आयतनं-विष्ण्वादेः । अनुरूपाणीति । [५] सूक्ष्ममार्गेणति यावत् ॥ ३३ ॥

 वन्यैर्माल्यैः फलैर्मूलैः पक्कैर्मांसैर्यथाविधि ।
 अद्भिर्जपैश्च वेदोक्तैः दर्भैश्च ससमि[६]त्कुशैः ॥ ३४ ॥
 तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।
 तदा विविशतुः शालां सुशुभां [७]शुभलक्षणौ ॥ ३५ ॥
 तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां विवाताम् ।
 वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम् ॥

 वृक्षपर्णैः कृतं छदनं-आच्छादनं यस्याः सा तथा ॥ ३६ ॥


  1. विवेश वसतिं-ङ.
  2. रौद्रयागकरणात् पुनः स्नानम् । रौद्रकर्मकरणे 'अप उपस्पृश्य' इति विधानात्-गो.
  3. विमानानि-ङ
  4. चैत्यानि-गन्धर्वाद्यावासस्थानानि-गो.
  5. आश्रमस्य अल्पप्रदेशत्वादिति भावः ।
  6. द्गणैः-ङ.
  7. शुभलक्षणाम्-झ.