पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
518
[अयोध्याकाण्डः
चित्रकूटनिवासः

 यज्ञार्थपशुवधे दोषशङ्कां निवर्तयति-कर्तव्य इत्यादि । शास्त्रचोदितो विधिः कर्तव्य एव, तमेवं धर्मं त्वं धर्ममेवानुस्मर ; नात्र हिंसादि-दोषप्रसङ्ग इत्यर्थः । तद्यज्ञार्थं द्विप्रजानां गतिस्तद्वदिति यज्ञविनियुक्त-पशूनामुत्तमलोकभागित्वेन वधस्य तेषामनुग्रहत्वात् ॥ २३ ॥

 भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा ।
 चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥ २४ ॥
 ऐणेयं श्रपयस्वैतत् शालां यक्ष्यामहे वयम् ।
 त्वर [१]सौम्य ! मुहूर्तोऽयं ध्रुवश्च दिवसोऽ[२]प्ययम् ॥ २५ ॥
 स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।
 अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ २६ ॥
 तं तु पक्कं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।
 लक्ष्मणः पुरुषव्याघ्रं अथ राघवमब्रवीत् ॥ २७ ॥
 अयं सर्वः समाप्ताङ्गः शृतः कृष्णमृगो [३]मया ।
 [४]देवताः,देवसङ्काश ! यजस्व कुशलो ह्यसि ॥ २८ ॥

 अयं [५] सर्व इति। सर्वकर्मार्ह इति यावत् । समाप्ताङ्ग इति । शिरःपादादिसर्वाङ्गोपेत इति यावत् । श्रुतः-पक्कः ॥ २८ ॥

 रामः स्नात्वा तु नियतः गुणवान् [६]जप्यकोविदः ।
 सङ्ग्रहेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ॥ २९ ॥

 गुणवान्-कर्मापेक्षितप्रायत्यादिगुणवान् । [७]सत्रावसानिकान्-यागसमाप्तिप्रयोजनान् मन्त्रान् गृहीत्वा सङ्ग्रहेण वास्तुशान्त्यादिकमकरोत् । राजपीठावस्थाने पुरोहितेन कर्मप्रवृत्तिः ; वनस्थराजर्षीणांस्वेनैव ॥ २९ ॥


  1. अयं सौम्य हूर्तः-शुभमुहूर्तः इत्येकं पदं वा ।
  2. ह्ययम्-च.
  3. यथा-ङ.
  4. देवता इति द्वितीया-बहुवचनान्तं पदम् ।
  5. कृष्णः-ङ.
  6. जपकोविदः-च.
  7. सत्रं-वास्तुयागः येर्मन्त्रैरवसीयते परिसमाप्यते ते सत्रावसानाः, सत्रावसाना एव सत्रावसानिकाः-छांन्दसो वृद्ध्यभावः-गो.