पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६ सर्गः]
517
चित्रकूटेऽकरोद्रम्यां पर्णशालां तु लक्ष्मणः

 ततोऽब्रवीन्महाबाहुः लक्ष्मणं लक्ष्मणाग्रजः ।
 संनिवेद्य यथान्याय्यं आत्मानमृषये प्रभुः ॥ १८ ॥

 आत्मानं निवेद्येति । अमुकस्य पुत्रः, अमुकहेतोरिहागतवानस्मि-इत्यादिकमुक्त्वेत्यर्थः ॥ १८ ॥

 लक्ष्मणानय दारूणि दृढानि च वराणि च ।
 कुरुष्वावसथं, सौम्य ! [१]वासे मेऽभिरतं मनः ॥ १९ ॥

 तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।
 आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ २० ॥

 तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् ।
 शुश्रूषमाणमेकाग्रं इदं वचनमब्रवीत् ॥ २१ ॥

 निष्ठितां-अन्तर्बहिः प्राकारभित्त्या सुप्रतिष्ठिताम् । [२]बद्धकटां-छान्दसो वर्णलोपः-बद्धकबाटां, पृषोदरादित्वात्, कटे वृत्तौ वर्षे-कटति वर्षवारणं करोतीति कटः-छदिः-बद्धच्छदिषमिति यावत् ॥ २१ ॥

 ऐणेयं-मांसमाहृत्य शालां यक्ष्यामहे वयम् ।
 कर्तव्यं वास्तुशमनं, सौमित्रे ! चिरजीविभिः ॥ २२ ॥

 एणेयं-एणाड्ढञ् विकारे । शालां यक्ष्यामह इति । पर्णशालाधिष्ठातृदेवता इत्यर्थः । तास्तु 'शय्यादेशे कामलिङ्गेन, देहल्यामन्तरिक्षलिङ्गेन' इत्यादि बलिहरणखण्डप्रतिपाद्यमानाः । ततः पूर्वं वास्तुशमनम् । वास्तुशान्तिर्बोधायनोक्ता ॥ २२ ॥

 मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह, शुभेक्षण !
 कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनु[३]स्मर ॥ २३ ॥


  1. अस्मिन् देश इति शेषः
  2. कुद्ध्यार्थे कल्पितास्तरणां, बद्धवाह्यावरणां वा, कटे वर्षावरणयोरिति धातुः-गो.
  3. स्मरन्-ङ.