पुटमेतत् सुपुष्टितम्
5
[अयोध्याकाण्डः
चित्रकूटनिवासः
मनोज्ञोऽयं गिरिः, सौम्य ! नानाद्रुम[१] लतायुतः ।
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ १४ ॥
सुखेन आजीवितुं शक्यः स्वाजीवः ॥ १४ ॥
मुनयश्च महात्मानः वसन्त्यस्मिन् शिलोच्चये ।
अयं वासो भवेत्तावत् अत्र, सौम्य ! रमेमहि ॥ १५ ॥
अयं वासो भवेत्-वासयोग्यो भवेत् । तावत्-तस्मात् ॥ १५ ॥
इति सीता च रामश्च लक्ष्मणश्च[२] कृताञ्जलिः ।
अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ १६ ॥
इति-निश्चित्येति शेषः । अभिवादयन्-अभ्यवादयन्निति यावत् । [३] वाल्मीकिः प्राप्तराज्ये रामे यदा काव्यं करिष्यति तदा तमसातीराश्रमे वासस्तस्य, ततः प्राक् चित्रकूटाश्रमे ॥ १६ ॥
स्वागतं तमिति । तं-राम प्रति स्वागतं-तत्प्रश्नं निवेद्य विज्ञाप्य ॥ १७ ॥
- ↑ फला-ङ.
- ↑ महामतिः-ङ.
- ↑ ननु उपोद्धाते बालकाण्डे तमसातीरवासित्वेन वाल्मीकेः कथनात् कथमिदमिति चेत् ? तदानीं चित्रकूटे वाल्मीकेर्वासः । भरतागमनानन्तरं ऋषिनिर्गमनकथनात् ततः प्रभृति तमसातीरं इति ज्ञेयम्-गो. चित्रकूटे स्थित एव वाल्मीकी रामराज्यप्राप्तिसमये तमसातीरं गत इति न विरोध इति प्राञ्चः । प्राचेतसादयं वाल्मीकिरन्य एवेति तत्त्वम्-ति.
- ↑ एतदनन्तरं 'राघवं प्रीतिसंयुक्त इदं वचनमब्रवीत् । ज्ञातं मया रघुश्रेष्ठ त्वदागमनकारणम् ॥ अत्र वासमृषीणां च सकाशे रोचय प्रभो । इति तेन समाज्ञप्तः प्रीयमाणो महारथः ॥ तथेति प्रतिजग्राह ऋषिणोक्तं कृताञ्जलिः ।' इत्यधिकं-ङ.
- ↑ तु-ङ.