पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
520
[अयोध्याकाण्डः
चित्रकूटनिवास

 अनेकनाना[१]मृगपक्षिसङ्कुले
  विचित्रपत्रस्तबकद्रुमैर्युते ।
 वनोत्तमे व्यालमृगानुनादिते
  तदा विजह्रुः सुसुखं [२] जितेन्द्रियाः ॥ ३७ ॥

 सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ।
 ननन्द हृष्टां मृगपक्षिजुष्टां जहाौ च दुःखं पुरविप्रवासात् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्पञ्चाशः सर्गः


 माला (३५) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे षट्पञ्चाशः सर्गः



  1. विध-ङ.
  2. अनेन विहाराणां अग्राम्यत्वं सूच्यते ।