पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
491
तद्रात्रिं तत्र वृक्षस्य मूले ते न्यवसंस्त्रयः

 श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः ।
 अनन्तरं च सीतायाः राघवो रघुनन्दनः ॥ ९९ ॥

 गतं तु गङ्गाऽपरपारमाशु
  रामं सुमन्त्रः [१][२]प्रततं निरीक्ष्य ।
 अध्वप्रकर्षात् विनिवृत्तदृष्टिः
  मुमोच बाष्पं व्यथितस्तपस्वी ॥ १०० ॥

 अध्वनः प्रकर्षः-आधिक्यं-अतिदूरमिति यावत् । विनिवृत्तदृष्टिः-विनिवृत्तचक्षुर्व्यापारः ॥ १०० ॥

 स लोकपालप्रतिम[३]प्रभाववान्
  तीर्त्वा महात्मा वरदो महानदीम् ।
 ततः समृद्धान् [४]शुभसस्यमालिनः
  क्रमेण [५]वत्सान् मुदितानुपागमत् ॥ १०१ ॥

 वत्सान्-वत्सदेशान् । अन्तर्वेदिदेशो वत्सदेशः ॥ १०१ ॥

 [६]तौ तत्र हत्वा चतुरो महामृगान्
  वराहमृश्यं पृषतं महारुरुम् ।
 आदाय मेध्यं त्वरितं बुभुक्षितौ
  वासाय काले ययतुर्वनस्पतिम् ॥ १०२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विपञ्चाशः सर्गः



  1. प्रततं-अविच्छिन्नमिति यावत् ।
  2. सततं-च.
  3. प्रभावः-च.
  4. जलसस्य-ङ.
  5. गङ्गायमुनयोर्मध्यदेशः वत्सदेशः ।
  6. पूर्वं---कन्दमूलफलैजीवन् हित्वा मुनिवदामिषम्' (अयो. २०-२९) इत्यभिधानं तु सुसंस्कृतमांसभक्षणविषयम् । अतो न विरोधः ।