पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
490
[अयोध्याकाण्डः
गङ्गातरणम्

 अवश्यं रक्षणं कार्यं [१]अदृष्टे विजने वने ।
 [२]अग्रतो गच्छ, सौमित्रे ! सीता त्वामनुगच्छतु ॥ १५ ॥

 अदृष्ट इति । इतः प्राक् सीतयेति शेषः । यदेवं अतः- अग्रत इत्यादि । एवं कार्यवशात् स्त्रयनुजयोः अग्रतो गमनमदोषः ॥

 पृष्ठतोऽ[३]नुगमिष्यामि त्वाञ्च सीतां च पालयन् ।
 [४]न्योन्यस्येह [५]नो रक्षा कर्तव्या, पुरुषर्षभ ! ॥ ९६ ॥

 न हि तावदतिक्रन्ता सुकरा काचन क्रिया ।

 नः-अस्माकं अन्योन्यस्य रक्षा कर्तव्या । छत्रिन्यायेन रक्ष्याया अपि रक्षकान्तः प्रवेशः-न इति । अन्ततः सीतया च स्वपातिव्रत्यमाहिम्ना स्वेतरयो रक्षणं भवति । कथमेवमतियत्न इत्यतः-न हीत्यादि । काचन क्रिया-अपायरक्षणलक्षणा अतिक्रान्तकाला चेत् सुकरा न हि । प्रहृतं प्रहृतमेवेति किं रक्षणीयम् ॥ ९६ ॥

 अद्य दुःखं तु वैदही वनवासस्य वेत्स्यति ॥ ९७ ॥
 प्रणष्टजनसम्बाधं [६]क्षेत्रारामविवर्जितम् ।
 विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ॥ ९८ ॥

 क्षेत्रं-शाल्यादिक्षेत्रम् । विषमं-निम्नोन्नतम् । प्रपतन्त्यस्मिन्निति प्रपातः-गतः ॥ ९८ ॥


  1. मद्विधैः-च.
  2. कनीयसोः पृष्ठतोऽवस्थापने हि रक्षा सुकरा न स्यात् । अग्रतः स्थितस्य रामस्य पृष्ठे विद्यमानयोस्तयोर्योगक्षेमनिर्वहणस्य क्लिष्टत्वात स्वस्यैवान्ते गमनम् ।
  3. हं ग-ङ.
  4. अपरस्पररक्षणं शस्त्रादिनैवेति नायं निर्बन्धः, स्वरूपानुगुणत्वाद्रक्षणव्यापारस्थ । एवञ्च सीताया अपि शुश्रूषादिलक्षणं रक्षणं वर्तत एवेति ।
  5. नौ-ङ.
  6. क्षेत्रग्राम-ङ.