पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
489
गङ्गाया दक्षिणं तीरं प्राप्य ते विविशुर्वनम्

 गवां शतसहस्रं च वस्त्राण्यन्नं च[१]पेशलम्
 ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ ८८ ॥
 सुराघटसहस्रेण [२] मांसभूतौदनेन च ।
 यक्ष्ये त्वां [३]प्रयता, देवि ! पुरीं पुनरुपागता ॥ ८९ ॥

 यक्ष्य इति । महाबलिप्रदानेनेति शेषः ॥ ८९ ॥

 यानि त्वत्तीरवासीनि दैवतानि वसन्ति च ।
 तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ ९० ॥

 तीर्थानि-प्रयागादीनि । आयतनानि-काश्यादीनि ॥ १० ॥

 पुनरेव महाबाहुः मया भ्रात्रा च सङ्गतः ।
 अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे ! ॥ ९१ ॥
 तथा संभाषमाणा सा सीता गङ्गामनिन्दिता ।
 दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ ९२ ॥
 तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।
 प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः ॥ ९३ ॥
 अथाब्रवीत् महाबाहुः [४]सुमित्रानन्दवर्धनम् ।
 भव संरक्षणार्थाय सजने विजनेऽपि वा ॥ ९४ ॥

 भवेति । सावधान इति शेषः । संरक्षणार्थायेति । सीताया इति शेषः ॥ ९४ ॥


  1. शोभनम्-ङ.
  2. मांसरूपेणान्नेनेत्यर्थः ।
  3. प्रीयतां-च.
  4. 'रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवी विद्धि गच्छ तात यथासुखम् ॥' इति पूर्वोक्तसुमित्रानिदेशः लक्ष्मणेन परिपालित इति ज्ञापनाय वनप्रवेशकाले 'सुमित्रानन्दवर्धनं' इति लक्ष्मणो विशेषितः वाल्मीकिना ।