मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ।
वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ८२ ॥
अथ गङ्गाया महादेवतात्वात् स्त्रीदेवतात्वाच्च सीतायाः प्रार्थनम्-वैदेही प्राञ्जलिरित्यादि ॥ ८२ ॥
पुत्रो दशरथस्यायं महाराजस्य धीमतः ।
निदेशं[१]पारयित्वेमं, गङ्गे, त्वदभिरक्षितः ॥ ८३ ॥
चतुर्दश हि वर्षाणि समग्राण्युष्य कानने ।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ८४ ।।
ततस्त्वां, देवि ! सुभगे ! क्षेमेण पुनरागता ।
यक्ष्ये प्रमुदिता, गङ्गे ! सर्वकाम [२]समृद्धिनी ॥ ८५ ॥
सर्वकामसमृद्धिनीति । व्रीह्यादित्वादिनिः ॥ ८५ ॥
त्वं हि त्रिपथगा, देवि ! ब्रह्मलोकं [३]समीक्षसे ।
भार्या चोदधिराजस्य लोकेऽस्मिन् संप्रदृश्यसे ॥ ८६ ॥
ब्रह्मलोकं समीक्षस इति । अक्षू व्याप्तिसङ्घातयोः, श्नौ च तङ् छान्दसम्, व्याप्ता भवसि । तत् श्रीमदादिगुरुनाथकमण्डलुनित्यप्रतिष्ठत्वेनेति व्याप्तिः । तथात्वं-"आदावादिपितामहस्य नियम-व्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्"[४]इत्यादि पाठकाः पौराणिकाश्च जानन्ति ॥ ८६ ॥
तत् त्वां, देवि ! नमस्यामि प्रशंसामि च, शोभने !
प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ ८७ ॥
प्रशंसामि-स्तौमि । शिवेन-क्षेमेण सह ॥ ८७ ॥