पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
487
ते तु तेरुस्ततो गङ्गां नावा गुहसहायतः

 अप्रतिकूलयन्-अनुकूलयन्निति यावत् ॥ ७६ ॥

 अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ।
 ततो निषादाधिपतिः गुहो [१]ज्ञातीनचोदयत् ॥ ७७ ॥

 राघवोऽपि महातेजा नावमारुह्य तां ततः ।
 [२]ब्रह्मवत क्षत्रवच्चैव जजाप हितमात्मनः ॥ ७८ ॥

 आरुह्येति पदम्। ब्रह्मवत् क्षत्रवादेति । ब्रह्मक्षत्रदेवताकं नावारोह-मंन्त्र आत्मनो हितमुद्दिश्य जजाप तथा मन्त्रस्तु 'अमूषु वाजिनां' इति वर्गे 'सुत्रामाणम्' इत्यादिः । तत्र हि 'एष ह वा अरिष्टनेमिः पृतनाजित्' इत्यादिब्राह्मणे ब्रह्मक्षत्रदेवताकत्वं स्पष्टं प्रतिपाद्यते । एष इत्यपरोक्षनिर्देशात् ब्रह्ममण्डलस्थो भगवान् ब्रह्मास्पदः। पृतनाजित्पदेन तस्यैव अभिजिदात्मना क्षत्रधर्मप्रधानस्य चोपदेशः ॥ ७८ ॥

 आचम्य च यथाशास्त्रं नदीं तां सह सीतया ।
 [३]प्राणमत् प्रीतिसंहृष्टः लक्ष्मणश्रामितप्रभः ॥ ७९ ॥
 अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् ।
 आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ ८० ॥
 ततस्तै[४]श्चोदिता सा नौः कर्णधारसमाहिता ।
 शुभस्फ्यवेगाभिहता [५]शीघ्रं सलिलमत्यगात् ॥ ८१ ॥

 कर्णधारेण-नाविकेन समाहिता-सज्जीकृता । स्फ्याकारत्वात् स्फ्यं-अरित्रं, तेन वेगादभिहता-प्रणुन्ना ॥ ८१ ॥


  1. नोः नीयतां पारमित्यचोदयदित्यर्थः ।
  2. ब्रह्मवत् क्षत्रवदित्याहार्थे वतिप्रत्ययः । ब्राह्मणार्हे क्षत्रियार्हमित्यर्थः । यद्वा ब्रह्मक्षत्रशब्दयुक्तं मन्त्रं जजापेल्यर्थः । स च मन्त्रः सुत्रामाणमित्यादिः । तत्र त्वरिष्टनेमिः पृतनाजिदिति ब्रह्मक्षत्रशब्दौ श्रुतौ-गो.
  3. प्रणमत्-च.
  4. श्चालिता-च.
  5. गङ्गासलिल-ङ.