पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
486
[अयोध्याकाण्डः
गङ्गातरणम्

 [१]ततो वैखानसं मार्गं [२]आस्थितः सहलक्ष्मणः ।
 व्रतमादिष्टवान् रामः [३]सहायं गुहमब्रवीत् ॥ ७१ ॥

 वैखानसाः-फलमूलाशिनो वानप्रस्था ऋषयः । व्रतं आदिष्टवान्-अङ्गीकृतवान् । सहायं-उक्तरूपगङ्गातरणादिक्कत्यसहायभूतम् ॥ ७१ ॥

 अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ।
 भवेथाः, गुह ! राज्यं ते दुरारक्षतमं मतम् ॥ ७२ ॥

 दुःखेन आरक्षा रक्षणं यस्य तत्तथा अतिशयेन दुरारक्षं दुरारक्षतमम् ॥ ७२ ॥

 ततस्तं [४]समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ।
 जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ७३ ॥
 स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ।
 तितीर्षुः शीघ्रगां गङ्गां इदं [५]लक्ष्मणमब्रवीत् ॥ ७४ ॥
 आरोह त्वं, नरव्याघ्र ! स्थितां नावमिमां शनैः ।
 सीताञ्चारोपयान्वक्षं परिगृह्य [६]मनस्विनीम् ॥ ७५ ॥
 स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् ।
 आरोप्य मैथिलीं पूर्वं आरुरोहा [७]त्मवांस्ततः ॥ ७६ ॥


  1. अत्र–ननु रामेण वानप्रस्थाश्रमस्वीकारे पुनरन्ते कथं गार्हस्थ्ये प्रतिनिवृत्तिः, यदि चेदानीं वानप्रस्थाश्रमो न स्वीकृतः तदा तद्धर्मानुष्ठानं जटाधारणादिकं गृहस्थस्य विरुद्धं स्यात्–इत्याशंक्य गोविन्दराजैः- पितृनियोगाधीनसाङ्कल्पिकव्रतविशेषस्यास्य युधिष्ठिर-सन्नयासादिवन्न दोषत्वम् । तथोक्तं मनुना 'सम्यक्संकल्पजः कामः धर्ममूलमिदं स्मृतम् इति-इति समाहितम्
  2. आस्थाय-ङ.
  3. सखायं-ङ.
  4. समनुज्ञाप्य-च.
  5. वचन-च.
  6. मनस्विनीमिति निन्दायां मतुप्, भीरुमिति यावत् । पूर्वारोहणे असौ बिभीयात् इति भावः-गो.
  7. पूर्वं मनस्विनीमित्युक्तं, इदानीमात्मवानित्युक्तम् । उभाभ्यां आरोपणे दोषशङ्काराहित्यमुक्तम्-गो.