पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
485
अथ रामो जटाश्चक्रे, लक्ष्मणोऽपि, वनोचिताः

 सजने वने वासो मे न योग्यः इत्युक्त्या, इहैव वने वस्तव्यं इति गुहेन प्रार्थितमिति गम्यतो[१] । आश्रम इति । जानपदजनरहित इति शेषः । तद्गतो विधिरिति । तादृगवस्थानगतः सङ्कल्प इत्यर्थः ॥ ६६ ॥

 सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम् ।
 हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥ ६७ ॥
 जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ।

 सोऽहं-एवसङ्कल्पवानहं वन्याहाराधश्शय्यादिनियमं गृहीत्वा, तपस्विजनभूषणं जटाः, सीताया लक्ष्मणस्य चानुमत्या कृत्वा गमिष्यामि । तदर्थं न्यग्रोधक्षीरमानय । सीताया हितकाम इत्यन्यः[२]। किं हितं जटाधारणेन सीताया इति न विदुः । अनुमतिस्त्वपेक्षिता, यस्याः जटादर्शने सन्यासकल्पतः परमदुःखं स्यात् ॥ ६७ ॥

 तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुदाहरत् ॥ ६८ ॥
 लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोजटाः
 दीर्घबाहुर्नरव्याघ्रः [३]जटिलत्वमधारयत् ॥ ६९ ॥

 लक्ष्मणस्याकरोदिति । तेनापि स्ववदेवावस्थानस्य सङ्कल्पितत्वात् ॥ ६९ ॥

 तौ तदा चीरवसनौ जटामण्डलधारिणौ ।
 अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ ७० ॥


  1. 'वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः' (५०-३९) इति पूर्वं तथा प्रार्थितमिति भाति ।
  2. महेशतीर्थः, गोविन्दराजो वा
  3. जटिलत्वं-जटावत्वम् ।