पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
484
[अयोध्याकाण्डः
गङ्गातरणम्

 नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ।
 कैकेयी प्रत्ययं गच्छेत् इति रामो वनं गतः ॥ ६१ ॥

 रामो वनं गत इति प्रत्ययमिति योजना ॥ ६१ ॥

 [१]परितुष्टा हि मा देवी वनवासं गते मयि ।
 राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥ ६२ ॥
 एष मे प्रथमः कल्पः यदम्बा मे यवीयसी ।
 भरतारक्षितं [२]स्फीतं पुत्रराज्यमवाप्नुयात् ॥ ६३ ॥

 अतिशङ्का-अन्यथाशङ्का । यवीयसी नातिशङ्केतेति यत् एष मे प्रथमः कल्पः-मुख्यं प्रयोजनमिति यावत् । भरतेन आरक्षितं-अत्यर्थं रक्षितं, पुत्रराज्यं-तज्जसुखमवाप्नुयादितीदं चान्यत् प्रयोजनमिति शेषः ॥ ६३ ॥

 मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ।
 सन्दिष्टश्चासि यानर्थान् तांस्तान् ब्रूयास्तथा तथा ॥ ६४ ॥
 इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः ।
 गुहं वचन [३]मक्लीबो रामो हेतुमदब्रवीत् ॥ ६५ ॥
 नेदानीं, गुह ! योग्योऽयं वासो मे सजने वने ।
 [४]अवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः ॥ ६६ ॥


  1. परितुष्टा सा देवी धार्मिकं राजानं मिथ्यावादीति नातिशङ्केतेत्यन्वयः ।
  2. वृत्तं-ङ.
  3. मक्लीबं-ङ
  4. आश्रमवास एव कर्तव्यः तापसवत् । तादृशाश्रमगतः-तदनुगुणः विधिः-नियमादिश्च कर्तव्य इत्यर्थः ।