पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
483
रामस्तु हेतुमद्वाक्यैः सुमन्त्रं तं न्यवर्तयत्

 वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ।
 यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ ५६ ॥

 वनवासे-तत्काले । क्षयं प्राप्त इति । समाप्त इति यावत् । वहेयमिति यत्, एष मे मनोरथ इति योजना ॥ ५६ ॥

 चतुर्दश हि वर्षाणि सहितस्य त्वया वने ।
 क्षणभूतानि यास्यन्ति शतसंख्याऽन्यतोऽन्यथा ॥ ५७ ॥

 शतसंख्यान्यतोऽन्यथेति । अन्यतः-त्वद्वियुक्ततया अवस्थितिपक्षे यथा क्षणमात्रमेव शतसंख्यानि-तावत्प्रमाणवर्षभूतानि भवन्ति अतिदुःखोपाधेः, तद्वत् त्वत्सेवासुखोपाधेः चतुर्दशवर्षाणि क्षणमात्राणि भविष्यन्तीत्यर्थः ॥ ५७ ॥

 [१]भृत्यवत्सल ! तिष्ठन्तं भर्तृपुत्रगते पथि ।
 भक्तं भृत्यं स्थितं [२]स्थित्यां [३]न मां त्वं हातुमर्हसि ॥ ५८ ॥

 भर्तृपुत्रगते-राजपुत्राश्रिते पथि यथा भृत्येन स्थातव्यं, तथा त्वद्विषये तिष्ठन्तं तथा । स्थित्यां स्थितमिति । मन्त्रिणा राजनि राजकार्ये च यथा स्थातव्यं तस्यामेव स्थित्यां सदा स्थितं कदाप्यपराधरहितमिति यावत् ॥ ५८ ॥

 एवं बहुविधं दीनं याचमानं पुनःपुनः ।
 रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ५९ ॥
 जानामि परमां भक्तिं मयि ते, भर्तृवत्सल !
 शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ ६० ॥


  1. भक्तवत्सल-ङ.
  2. स्थित्यां-मयादीयां स्थितं अस्खलितमर्यादम् । अत एव भर्तृपुत्रगते स्वामि-पुषेण त्वयाऽऽगते पथि-वनगमने तिष्ठन्तं-गो.
  3. त्वं न मां--ङ.