पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
482
[अयोध्याकाण्डः
गङ्गातरणम्

 [१]त्वत्कृते [२]न मयाऽवाप्तं रथचर्याकृतं सुखम् ।
 आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ ५१ ॥

 सोऽहं त्वत्कृते-त्वन्निमित्ततया मया अद्य सारथित्वं विहाय केवलरथचर्याकृतं सूतकृत्यसाध्यं सुखमवाप्तम् । अतः परं त्वत्कृतेनैव-त्वन्निमित्तेनैव हेतुना वनवासकृतं महत् सुखं राज्यचिन्ता दुःखाभावादाशंसे, सर्वोऽपि राज्यभारो ममैव किल मन्त्रिमुख्यस्य । एवमादौ [३]यद्वाभट्टो बहुजल्पति ; न किञ्चिदपि तत्सङ्गतं पश्यामः ॥ ५१ ॥

 प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः ।
 प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः ॥ ५२ ॥

 प्रत्यनन्तरः-प्रत्यासन्नः-अनुकूलः भव, ममारण्यप्रत्यासत्तावित्यर्थः ॥ ५२ ॥

 इमे चापि हयाः, वीर ! यदि ते वनवासिनः ।
 परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ ५३ ॥
 तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ।
 अयोध्यां देवलोकं वा सर्वथा [४]प्रजहाम्यहम् ॥ ५४ ॥
 न हि शक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना ।
 राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥ ५५ ॥


  1. त्वत्कृते त्वन्निमित्तं रथ यकृतं सुखं मया नावाप्तं-राज्याभिषिक्तत्वद्रथ-चर्याकृतं सुखं मया भाग्यहीनेन न लब्धम् तथापि त्वत्कृतेन त्वत्साहाय्य-करणेन वनवासकृतमिति सुखमाशंसे ।............ यद्वा-त्वत्कृतेन त्वया कृतेनानुग्रहेण रथचर्याकृतं सुखं मयाऽवाप्तं, एवं त्वदनुग्रहेण वनवासकृतं सुखमपि अहमाशंस इति-गो.
  2. हि, तु-ङ.
  3. गोविन्दराजः ।
  4. न ब्रजाम्यहम् ङ.