पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
481
किन्तु स स्वानुगमनं प्रार्थयामास राघवम्

मेवाहं ब्रूयाम् । सत्यमपीदं वननयनवचनं कथमेवाहमप्रियं ब्रूयाम्, 'सत्यं ब्रूयात् प्रियंं ब्रूयात् न ब्रूयात् सत्यमप्रियम्' इति स्मरणादित्याशयः ।[१]अन्यस्तु-अतः किमपि वक्तुं न शक्नोमीति सिद्धं-इति महता यत्नेनायोजयदिव ॥ ४६ ॥

 मम तावन्नियोगस्थाः त्वद्बन्धुजनवाहिनः ।
 कथं रथं त्वया हीनं [२][३]प्रवक्ष्यन्ति हयोत्तमाः ॥ ४७ ॥

 त्वद्बन्धुजनेति। [४]त्वां त्वद्बन्धुजनं सीतासौमित्रिरूपं वहनशीला । इत्यर्थः । प्रवक्ष्यन्तीति । वहेः लृटि स्ये हस्य ढत्वकत्वादिना रूपम् ॥

 तन्न शक्ष्याम्यहं गन्तुं अयोध्यां [५]त्वदृतेऽनघ !
 वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ ४८ ॥
 यदि मे याचमानस्य त्यागमेव करिष्यसि ।
 सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ॥ ४९ ॥

 त्यक्तमात्रः-तत्क्षण एवेत्यर्थः ॥ ४९ ॥

 भविष्यन्ति वने यानि तपोविघ्नकराणि ते ।
 रथेन [६]प्रतिबाधिष्ये तानि [७]सत्त्वानि, राघव ! ॥ ५० ॥

 भविष्यन्ति-सम्भावितानि । रथेन प्रतिबाधिष्य इति । रथेन साधनेन अहमेव रथी भूत्वा प्रतिबाधिष्ये-निवर्तयिष्यामि । न केवलमहं सूतः, मन्त्रिप्रधानः किल ॥ ५० ॥


  1. गोविन्दराजः
  2. हयोत्तमाः त्वया हीनं रथं कथं वक्ष्यन्तीत्यन्नयः
  3. प्रवाह्यन्ति-च.
  4. त्वं च बन्धुजनश्चेति विग्रहः, अर्थात् बन्धुजनशब्दस्य त्वद्वन्धुजनरूपार्थपरत्वम् ।
  5. त्वामृते-ङ.
  6. प्रतियोधिष्ये-ङ.
  7. सर्वाणि च.