पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
480
[अयोध्याकाण्डः
गङ्गातरणम्

 दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ।
 चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥

 अग्रतः-पुरतः । नूनं निराहाराः कृता इति । त्वद्वियोगदुःखेनेति शेषः ॥ ४२ ॥

 दृष्टं तद्धि त्वया, राम ! यादृशं त्वत्प्रवासने ।
 प्रजानां सङ्कुलं वृत्तं त्वच्छोकाक्रान्तचेतसाम् ॥ ४३ ॥
 आर्तनादो हि यः पौरैः मुक्तस्त्वद्विप्रवासने
 [१]सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ ४४ ॥
 [२]अहं [३]किञ्चापि वक्ष्यामि देवीं, तव सुतो मया ।
 नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति ॥ ४५ ॥
 असत्यमपि, नैवाहं ब्रूयां वचनमीदृशम् ।
 कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ ४६ ॥

 अथ वने स्थितिर्नानुशोचनीयेति यत् वनस्थितेर्निवेदनीयत्वमुक्तं तदतिघोरं मया अशक्यकरणम् । अतः प्रकारान्तरमेव असत्यमपि ब्रूयामित्याह-अहमित्यादि । किञ्च अहं देवीं-तव मातरं प्रति अहमेवमपि वक्ष्यामि । कथम् ? तवासौ सुतो मया मातुलकुलं कोसलदेशस्थं नीतः, न तु वनम् ; अतो मा सन्तापं कृथा इत्यसत्यमपीदृशं वचन-


  1. रथस्थं-ङ.
  2. तब सुतो मातुलकुलं नीत इति प्रियमपि न ब्रूयां, असत्यत्वात् । वनं नीत इति सत्यमपि न ब्रूयां अधिवत्वात् अतः न किमपि वक्तुं शक्नोमि इति तिलक-गोविन्दराजौ । एतव्याख्यानरीत्या तु अहं किञ्चापीत्यतः असत्यमपि इत्यन्तमेकं वाक्यम् । शिष्टमन्यत् वाक्यम् । असत्यमपीत्यपिशब्दस्वारस्यात् एवं व्याख्यातं महेशतीर्थेनापि । यद्यपि तिलके इदं दूषितम्-तन्न शक्ष्यामीत्यादिना नगरगमनाभावप्रतिपादनादिति । अथापि तद्वाक्यस्यान्तिमनिर्णयरूपत्वान्न विरोधः ॥
  3. किञ्चाच-ङ.