पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
479
स तु रामं परित्यज्य नैच्छत् गन्तुं स्वयं पुरम्

 तातस्य प्रियकामेन यौवराज्यं [१]मपेक्षता ।
 लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ॥ ३६॥

 अपेक्षता-अङ्गीकुर्वता। नित्यदा-छान्दसो दाप्रत्ययः ॥ ३६ ॥

 निवर्त्यमानो रामेण सुमन्त्रः [२] शोककर्शितः ।
 तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ॥ ३७ ॥
 यदहं नोपचारेण [३]ब्रूयां स्नेहादविक्लवः !
 भक्तिमानिति तत्तावत् वाक्यं त्वं क्षन्तुमर्हसि ॥ ३८ ॥

 उपचारः-स्वामिभृत्यभावोचितसत्कारः । यत् ब्रूयां त्वद्वचनात् परमपि, तत् क्षन्तुमर्हसि, प्रत्युत्तरं वदतीति न क्रोद्धव्यमित्यर्थः ॥ ३८ ॥

 कथं च त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् ।
 तव, [४]तात ! वियोगेन पुत्रशोकाकुलामिव ॥ ३९ ॥

 किं ब्रवीषीत्यतः कथमित्यादि । तव वियोगेनेत्यन्वयः । [५] तात-स्वामिन् इति यावत् । पुत्रवियोगजः शोकः-पुत्रशोकः, तेनेवा-कुलामिति । च शब्दः पूर्वान्तर्भावेण योज्यः ॥ ३९ ॥

 सराममपि तावन्मे रथं दृष्ट्वा तदा [६]जनः ।
 विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ ४० ॥

 मे रथमिति। मत्प्रवर्त्यं रथमित्यर्थः ॥ ४० ॥

 दैन्यं हि नगरी गच्छेत् दृष्ट्वा शून्यामिमं रथम् ।
 सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ ४१ ॥

 हतवीरं-हतरथिनमित्यर्थः ॥ ४१ ॥


  1. मवेक्षता-ङ.
  2. प्रतिबोधितः-च.
  3. ब्रूयाः च.
  4. तावद्वियोगेन-ङ.
  5. वृद्धत्वात् वत्सेति सम्बोधनं–गो.
  6. जनः किं ? पुर्येव विदीयेतेति भावः।