पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
478
[अयोध्याकाण्डः
गङ्गातरणम्

नाम्ना मातरमाचार्यदारांश्चेत्येके' इति स्मरणात् स्वमातुः पादाभिवन्दन-मादिशति–कौसल्यामित्यादि । प्रतीति शेषः । आर्यस्य त्वत्पूज्यस्य मम वचनात् सीताया मम लक्ष्मणस्य च पादाभिवादनं ब्रूया इत्यन्वयः ॥ ३१ ॥

 ब्रूयाश्च हि [१]महाराजं, भरतं क्षिप्रमानय ।
 आगतश्चापि भरतः स्थाप्यो [२]नृपमते पदे ॥ ३२ ॥

 महाराजं-तत्पदार्हं । नृपमते-दशरथानुमते ॥ ३२ ॥

 भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ।
 अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति[३]॥ ३३ ॥
 भरतश्चापि वक्तव्यः यथा राजनि वर्तसे ।
 तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ ३४ ॥

 वक्तव्य इति । किं वक्तव्य इत्यतः-यथेत्यादि । अविशेषत इति । स्वमातृकैकेय्यविशेषत इत्यर्थः ॥ ३४ ॥

 [४]यथा च तव कैकेयी सुमित्रा च विशेषतः ।
 तथैव देवी कौसल्या तव [५]मम माता विशेषतः ॥ ३५ ॥

 तदेव प्रदर्श्यते-यथेत्यादि ॥ ३५ ॥


  1. महाराजः-दशरथः
  2. नरपतेः पदे-ङ.
  3. नाभिभविष्यतीत्येतदनन्तरं इतिकरणं द्रष्टव्यम् ।
  4. अयमाशयो रामस्य–कैकेय्याः स्वजननीत्वेन, सुमित्रायाः स्वात्यन्तप्रियशत्रुघ्नजननीत्वेन च भरतस्य ते समे स्याताम् । रामस्य यथा लक्ष्मणः, तथा भरतस्य शत्रुघ्नः प्रिय आसीदिति पूर्वमेव (बा. २८ स.) उक्तम् । अपि च सुमित्रापुत्रस्य शत्रुघ्नस्य पार्श्व एव स्थितत्वान्न तावान् क्लेशः । कौसल्या तु अनुकम्पनीयैवेति ॥
  5. मान्या-ङ.