पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
477
रामस्तु सान्त्वयामास तं सुमन्त्रं नयोक्तिभिः

 यद्यत्तु स महाराजः नालीकमधिगच्छति ।
 न च ताम्यति [१]दुःखेन, सुमन्त्र ! कुरु तत्तथा ॥ २६ ॥

 यद्यत्-अनुशिष्य अलीकं तदनिवृत्तिदुःखम् ॥ २६ ॥

 अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् ।
 ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ २७ ॥

 मम हेतोरभिवाद्य-मत्प्रतिनिधितया मन्नमस्कारं कृत्वेत्यर्थः ॥

 नैवाहमनुशोचामि लक्ष्मणो [२]न च मैथिली ।
 अयोध्यायाश्चयुताश्चेति वने वत्स्यामहेति [३] च ॥ २८ ॥

 इदंशब्दार्थः-नैवाहमित्यादि । अयोध्यायाः च्युता वयं इति कृत्वा वने वत्स्यामह इति चेति । छान्दसः सन्धिः ॥ २८ ॥

 चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः ।
 लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ २९ ॥

 पुनःपुनः-अभीक्ष्णम् ॥ २९ ॥

 [४]एवमुक्त्वा तु राजानं मातरं च, सुमन्त्र ! मे ।
 अन्याश्च देवीः सहिताः कैकेयी च पुनःपुनः ॥ ३० ॥
 आरोग्यं ब्रूहि, कौसल्यां अथ पादाभिवन्दनम् ।
 सीताया[५] मम[६]चार्यस्य वचनाल्लक्ष्मणस्य च ॥ ३१ ॥

 सहिता इति । मन्मात्रा इति शेषः। कैकेयीं च आरोग्यं-अनामयं ब्रूहि । नेयं व्यङ्गयोक्तिः, अपि तु दैवहतेयं मातेत्यनुतापादेव । अथ


  1. शोकेन-च.
  2. न च शोचति च.
  3. वा-च.
  4. श्लोकद्वयमेकवाक्यम् ।
  5. भार्यायाः-ङ.
  6. आर्यस्य लक्ष्मणस्यन्वयः-गो.