पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
476
[अयोध्याकाण्डः
गङ्गावतरणम्

 ततस्तु विगते बाष्पे सूत [१]स्पृष्टोदकं शुचिम् ।
 रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ २१ ॥

 स्पृष्टोदकं-आचान्तम् ॥ २१ ॥

 इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।
 यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ २२ ॥

 सुहृत्-आपदि व्यसनापनोदकः । यदेवं अतः-यथेत्यादि ।

 शोकोपहतचेताश्च वृद्धश्च जगतीपतिः ।
 [२]कामभारावसन्नश्च तस्मादेतत् ब्रवीमित ॥ २३ ॥

 कामभारेण-प्रारब्धवशजेनाधर्म्येण अवसन्नस्तथा । तस्मात्-उक्तहेतोरेव । एतत्-वक्ष्यमाणम् ॥ २३ ॥

 यद्यदाज्ञापयेत् किश्चित् स महात्मा महीपतिः ।
 कैकेय्याः प्रिय[३]कामार्थे कार्यं तदविकाङ्क्षया ॥ २४ ॥

 कैकेय्याः प्रियकामार्थेऽपि यद्यदाज्ञापयति तदप्यविकांक्षया-सादरमविशङ्कतयाऽनुष्ठेयम् ॥ २४ ॥

 एतदर्थं हि राज्यानि प्रशासति [४]नरेश्वराः
 यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ २५ ॥

 एतच्छब्दार्थः-यदेषामित्यादि । प्रशासतीत्यभ्यस्तत्वादादेशः । सर्वकृत्येष्विति । कामात् क्रोधात् प्रवृत्तेष्वित्यर्थः ॥ २५ ॥


  1. अश्रुमोचनस्याशुचित्वात् स्पृष्टोदकमिति.
  2. मदभिषेकरूपकामावेशपीडित इति वा.
  3. कामार्थ-ङ. च.
  4. नराधिपाः च.