पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
475
एवमुक्तः स रामेण दुःखातों रुरुदे चिरम्

श्शय्यादिलक्षणं,स्वधिते-शेधि धृतौ, स्वेन धते-स्वेनानुष्ठीयमानेऽस्मिन् ब्रह्मचर्ये वा वृथा क्लेशत्वात् क्लेशफलोदयो नास्तीति मन्ये । न हि किल ब्रह्मचर्यमपि वरनिर्बन्धप्राप्तम् ॥ १७ ॥

 [१] [२]सह, राघव ! वैदेह्या भ्रात्रा चैव वने वसन् ।
 त्वं गतिं प्राप्स्यसे, वीर ! त्रीन् लोकांस्तु जयन्निव ॥ १८ ॥

 अस्तु वा सर्वज्ञस्य ते यथारुचि व्यवहारः ; नाहं त्वन्नियमनशक्तः। हे राघव ! वैदेह्या भ्रात्रा च सहैव वने वसन् त्रीन् लोकांस्तु जयन्निव–स्वपितृसत्यपरिपालनेन जयन्नेव भूत्वा परां गतिं--परमापवर्ग-ब्रह्मलोकं च प्राप्स्यसे, नात्र सन्देहः ॥ १८ ॥

 वयं खलु हताः, [३]राम ! [४]ये त्वयाऽप्युपवञ्चिताः ।
 कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ १९ ॥

 वयं खलु त्वया उपवञ्चिताः-त्यक्ताः हताः ॥ १९ ॥

 इति ब्रुवन्नात्मसमः सुमन्त्रः सारथिस्तदा ।
 [५]दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम् ॥ २० ॥

 आत्मसमः-प्राणसम इति यावत् । दूरगतं दृष्ट्वेति । [६]दूरदेशावस्थानवन्तं निश्चित्य तत्समीपे दुःखार्तः चिरं रुरोद ॥ २० ॥


  1. वस्तुतस्तु–भवतो वनवासो महोदयायैव अतिशयितकीर्त्यादिहेतुत्वात्, पाणसमयोवैदेहीलक्ष्मणयोश्च पाश्वस्थत्वान्नातीव खेदावहः त्वदेक प्राणानामस्माकं तु त्वद्वनवासः अतीव खेदायेति सुमन्त्रो वदति-सहेत्यादि ।
  2. सदा-ङ.
  3. नाथा-ङ.
  4. यत्त्वया-च.
  5. दृष्ट्वाऽदूरगतं-च. दृष्ट्वा वनगतं-ङ.
  6. तदानीं रामस्य समीप एव स्थितत्वादेवं व्याख्यातम् । अदूरगतमिति वा पदच्छेदः । वस्तुतस्तु-गतमिति भावे क्तः । दूरगमनं-दूरप्रयाणकं-दृष्ट्वा रुरोदेत्यर्थः ।