पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
474
[अयोध्याकाण्डः
गङ्गातरणम्

 एवं निवृत्तौ प्रयोजनमुक्त्वा इह प्रयोजनाभावात् सावधारणा निवृत्तिः पुनः प्रतिपाद्यते अनुगमनप्रत्याशानिवृत्तये-निवर्तस्वेत्यादि । एतावत्पर्यन्तं हि राजाज्ञया यानेन गमनं कृतम् । अतः परं यानं विहाय पद्ध्यामेव तु गमिष्यामः, अतो ममेह त्वया प्रयोजनं नास्ति ; अतः सर्वथा निवर्तस्वैवेत्युवाच ॥ १४ ॥

 आत्मानं त्वभ्यनुज्ञातं अवेक्ष्यार्तः स सारथिः ।
 सुमन्त्रः पुरुषव्याघ्रं ऐक्ष्वाकमिदमब्रवीत् ॥ १५ ॥

 अभ्यनुज्ञातमिति । प्रतिनिवृत्त्यै इति शेषः ॥ १५ ॥

 [१]नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् ।
 तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ १६ ॥

 अथ सुमन्त्रस्तु तवैव तावद्वनवासो न्यायप्राप्तः, तदा त्वयैवाहं वत्स्यामीत्याशयेनाह-नातिक्रान्तमित्यादि । सभ्रातृभार्यस्य तव प्राकृतवत्-क्षुद्रप्राणिवत् वने योऽयं वासः, तदिदं इह-लोके केनचित् पुरुषेण अस्मदादिना राजकीयेन जानपदेन वा नातिक्रान्तं-अत्यन्तं चित्ते न स्वीकृतं, सर्वासम्मतमेवेति यावत् ॥ १६ ॥

 न मन्ये ब्रह्मचर्येऽस्ति [२]स्वधिते वा फलोदयः ।
 मार्दवार्जवयोर्वापि त्वाञ्चेव्द्यसनमागतम् ॥ १७ ॥

 अपि वा-तावकयोर्मार्दवार्जवयोर्वशात् त्वाञ्चेदिदं व्यसनंवनवासदु:खं आगतं प्राप्तं, अथापि पुनः तत्र च यद्ब्रह्मचर्यं-अध


  1. लोकदृष्ट्या शोकापनुदं वचनमाह-नातीति । सभ्रातृभार्यस्य तव प्राकृतवत्-क्षुद्रवत् वने वासः येन दैवेन कृतः तदिदं दैवमिह लोके केनाप्यतिक्रान्तं न-लङ्घितं न-ति.
  2. स्वधीते-ङ, च.