पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
473
सुमन्त्रमवदत् रामः गच्छ शीघ्रं पुरीमिति

 अथोवाच महातेजाः रामो गुहमिदं वचः ।
 [१]कृतकामोऽसि भवता शीघ्रमारोप्यतामिति ॥ १० ॥

 [२] आरोग्यतामिति । वयमिति शेषः ॥ १० ॥

 ततः कलापान् सन्नह्य खड्गौ वध्वा च धन्विनौ ।
 [३]जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ११ ॥

 तत इति । एवं तस्यारोपणनियोगानन्तरम् । जग्मतुर्येन वै गङ्गामिति । येनावतारेण लोका गङ्गां तरन्ति, तेन तर्तुं तत्स्थनौसमीपं[४]खड्गादिकलापनिक्षेपणाय जग्मतुरित्यर्थः ॥ ११ ॥

 राममेवं तु धर्मज्ञं उपगम्य विनीतवत् ।
 किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥ १२ ॥

 ततोऽब्रवीद्दाशरथिः सुमन्त्रं
  स्पृशन् करेणोत्तमदक्षिणेन ।
 सुमन्त्र ! शीघ्रं पुनरेव याहि
  राज्ञः सकाशे भव चाप्रमत्तः ॥ १३ ॥

 उत्तमश्चासौ दक्षिणश्च तथा ; स्पर्शादिव्यापारे स एव किलोत्तमः,'सन्महत्...' इत्यादिना समासः ॥ १३ ॥

 निवर्तस्वेत्युवाचैनं एतावद्धि कृतं मम ।
 [५]रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ १४ ॥


  1. कृनकायोंऽस्मि-ङ.
  2. आरोप्यतामिति । खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषः-गो.
  3. जग्मतुः-रथादवरुह्य पद्भ्यां जग्मतुरित्यर्थः ।
  4. कलापः-तूणीरः 'कलापो भूषणे वर्हे तूणीरे ' इत्यमरः।
  5. मानं-ङ.