पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
472
[अयोध्याकाण्डः
गङ्गातरणम्

 स तु रामस्य वचनं निशम्य प्रतिगृह्य च ।
 स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥ ५ ॥

 स त्विति । लक्ष्मणेन कृतामन्त्रणो गुह इत्यर्थः । रामस्य वचनं निशम्येति । तराम जाह्नवीं इत्युक्तरूपम् ॥ ५ ॥

 अस्यवाहनसंयुक्तां कर्णग्राहवतीं शुभाम् ।
 सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ ६ ॥

 [१]अस्यवाहनेति । अस्य (जलं) निरस्य नावं वाहयति-तीरं प्रापयतीति अस्यवाहनम्, मयूरव्यंसकादित्वात् समासः, अरित्रमिति यावत् तत्संयुक्तां तथा । कर्णग्राहः-कर्णधारः, नाविक इति यावत् । सुखेन प्रतारः- प्रतारणं यया सा तथा । दृढां-दृढसन्धिबन्धाम् । [२]तीर्थे-अवतारमार्गे ॥ ६ ॥

 तं निशम्य गुहादेशं गुहामात्यगणो महान् ।
 उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ ७ ॥

 उपोह्य-वहेर्ल्यपि स्थानिवत्वात् कित्वात् संप्रसारणम्, समीपं प्रापय्येत्यर्थः ॥ ७ ॥

 ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।
 उपस्थितेयं नौः, देव ! भूयः किं करवाणि ते ॥ ८ ॥
 तवामरसुतप्रख्य ! तर्तुं सागरगां नदीम् ।
 नौरियं, पुरुषव्याघ्र ! [३]तां त्वमारोह, सुव्रत ! ॥ ९ ॥

 तर्तुमिति। ‘श्रयुकः किति' इति नेट् ॥ ९ ॥


  1. अस्य रामस्य, वाहन संयुक्तां-वाह्यते नीयतेऽनेनेति वाहनं-अरित्रादि-तेन संयुक्ताम् । कर्णग्राहवतीं-कर्णं अरित्रं गृह्णातीति कर्णग्राहः-कर्णधारः, तद्वतीं ...... । उपाहरेत्येकवचनं सचिवगणाभिप्रायेण-गो.
  2. तीरे-क.
  3. शीघ्रमारोह-च.