पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
471
ततः प्रातः गुहो नावं गङ्गां तर्तुमुगहरत्

 गुरुसौहृदात्-रामविषयगुरुसौहार्दात् ; तथा सत्यं-वास्तवं ब्रुवति सति गुहोऽपि रामे गुरुसौहृदात्-महास्नेहात् व्यसनाभिपीडितो बाष्पं मुमोच । ज्वरातुरः, अत एव व्यथातुरः, नागः-गजः । सार-(२७) मानः सर्गः ॥ २७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकपञ्चाशः सर्गः


द्विपञ्चाशः सर्गः

[गङ्गातरणम्]

 प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
 उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ १ ॥

 अथ सुमन्त्रगुहविसर्जनपूर्वकं गङ्गातरणं-प्रभातायामित्यादि ।

 भास्करोदयकालोऽयं गता भगवती निशा ।
 [१]असौ [२]तु कृष्णो विहगः कोकिलस्तात ! क्रूजति ॥ २ ॥
 बर्हिणानां च निर्घोषः श्रूयते नदतां वने
 [३]तराम जाह्नवीं, सौम्य ! शीघ्रगां सागरङ्गमाम् ॥ ३ ॥
 विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ।
 गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥ ४ ॥

 विज्ञाय-श्रुत्वेति यावत् ॥ ४ ॥


  1. सुकृष्णो विहगः-भारद्वाजः ; कोकिलश्च-गो.
  2. सुकृष्णो-ङ.
  3. एतदनन्तरं 'गच्छामः सन्ध्युपासार्थं त्वरयरव महारथ इत्यधिकं-ङ.