पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
470
[अयोध्याकाण्डः
लक्ष्मणसन्तापः

 [१] रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्
 [२]हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् ॥ २१ ॥
 रथाश्वगजसम्बाधां तूर्यनादविनादिताम् ।
 सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् ॥ २२ ॥
 आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् ।
 सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २३ ॥

 त एते अनन्तरं यथापूर्वं सुमङ्गलां राजधानीं विचरिष्यन्ति ॥

 अपि जीवेद्दशरथो वनवासात् पुनर्वयम् ।
 प्रत्यागम्य महात्मानं अपि [३]पश्येम सुव्रतम् ॥ २४ ॥
 [४]अपि सत्यप्रतिज्ञेन सार्धं [५]कुशलिना वयम् ।
  [६]निवृत्तवनवासेऽस्मिन् अयोध्यां प्रविशेमहि ॥ २५ ॥
 परिदेवयमानस्य दुःखार्तस्य महात्मनः ।
  [७]तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २६ ॥

 तिष्ठत इति । एवं परिदेवनं कृत्वा अवस्थितस्येत्यर्थः ॥ २६ ॥

 तथा तु सत्यं ब्रुवति प्रजाहिते
  नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः ।
 मुमोच बाष्पं व्यसनाभिपीडितः
  ज्वरातुरो नाग इव व्यथातुरः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकपञ्चाशः सर्गः



  1. जनानामयं स्वभावः-यत् अतीतं महान्तमपि दुःखं कालक्रमेण विस्मरन्तीति इत्यभिप्रेत्योच्यते-रम्वेत्यादि । समाजैः-अनेकजनैः मिलित्वा क्रियमाण उत्सवः समाजोत्सवः ।
  2. रम्यप्रासादसंपूर्णा-ङ,
  3. पश्याम-ङ.
  4. अस्मिन् रामे निवृत्तवनवासे सति, अत एव सत्यप्रतिज्ञेन कुशलेन पित्रा साधं वयमयोध्यां अपि प्रविशेमहीत्यन्वयः ।
  5. कुशलिनो-ङ.
  6. निवृत्ते वन-ङ.
  7. तिष्ठतः-अनासीनस्यैव ।