पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१ सर्गः]
469
सर्व तञ्चिन्तयन् नैव प्राप निद्रां स लक्ष्मणः

 अनुरक्तजनाकीर्णा [१]सुखा लोकप्रियावहा ।
 राजव्यसन[२]संसृष्टा सा पुरी विनशिष्यति ॥ १६ ॥

 राजव्यसनं-राजनाशः ॥ १६ ॥

 कथं पुत्रं महात्मानं [३]ज्येष्ठं प्रियमपश्यतः ।
 शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ १७ ॥
 विनष्टे नृपतौ पश्चात् कौसल्या विनशिष्यति ।
 अनन्तरं च माताऽपि मम नाशमुपैष्यति ॥ १८ ॥
 [४]अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।
 राज्ये रामयनिक्षिप्य पिता मे विनशिष्यति ॥ १९ ॥

 मनोरथं-रामराज्याभिषेकरूपं अनवाप्य अतिक्रान्तमतिक्रान्तं-नष्टं नष्टमिति क्रोशन्, 'आबाधे च' इति द्विर्वचनम्,आबाधो मनोदुःखम्, राज्ये रामं पुनरागतमनिक्षिप्यैव मे पिता विनाशष्यति ॥ १९ ॥

 सिद्धार्थाः पितरं वृत्तं तस्मिन् कालेऽभ्युपस्थिते ।
 प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति [५]भूमिपम् ॥ २० ॥

 सिद्धार्था इति । भाग्यवन्तस्तस्मिन् काले सर्वेषु प्रेत कार्येषु सन्निहिता भूत्वा संस्करिष्यन्ति, अस्माकं तु तदपि न लभ्यते । सिद्धार्थाः-प्राप्तराज्यप्रयोजना भरततत्पक्ष्या इत्यर्थः ॥ २० ॥


  1. सुखलोक-ङ.
  2. सन्तप्ताङ,
  3. सन्तं-ङ.
  4. ..................विनशिष्यतीति यत् तस्मात् अतिकान्तमतिक्रान्तं सर्वे प्रयोजन-
    मतीत्यगतमित्यर्थः-गो., ति.
  5. राघवं-ड.