पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
468
[अयोध्याकाण्डः
लक्ष्मणसन्तापः

 अस्मिन् [१]प्रव्रजिते, राजा न चिरं वर्तयिष्यति ।
 विधवा मेदिनी नूनं [२]क्षिप्रमेव भविष्यति ॥ १२ ॥

 धवः-पतिः ॥ १२ ॥

 विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
 निर्घोषोपरतं [३]चातो मन्ये[४]राजानेवेशनम् ॥ १३ ॥

 विनद्येत्यादि । श्रमेणोपरता भविष्यन्ति-एवं विनद्योपरतस्त्रीकं रामनिवेशनं चिरमनुभूताशनिघोषं सत् पश्चात् उपरतनिर्घोषमिव भविष्यतीति मन्ये ॥ १३ ॥

 कौसल्या चैव राजा च तथैव जननी मम ।
 [५]नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥ १४ ॥

 जीवन्तीति नाशंसे-वर्तमानसामीप्ये भविष्यति लट् न जीविष्यन्तीत्येवावगच्छामि । यदि वा जीविष्यन्ति तदा इमामेव शर्वरी जीविष्यन्ति ; नाभ्यधिकम्, अन्नपानाद्यस्वीकारात् परमदुःख-परितापाच ॥ १४ ॥

 जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।
 तद्दुःखं, [६]यत्तु कौसल्या वीरसूर्विनशिष्यति ॥ १५ ॥

 जीवेदपीति । एतद्रात्र्या परमपीति शेषः । मे मातैव जीविष्यति शत्रुघ्नस्यान्ववेक्षया । कौसल्या विनशिष्यति पुत्रान्तरविहीनत्वात् इति यत् तदेव मे दुःखम् ॥ १५ ॥


  1. प्रव्राजिते-ङ.
  2. क्षिप्रमेधा-ङ.
  3. तात-च.
  4. रामनि-ङ.
  5. आशंसे-ङ.
  6. यदि-च.