पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
467
तंद्वीक्ष्य लक्ष्मणः सोढुं नाशकत् भ्रातृसङ्कटम्

 न मेऽविदितं किश्चित् [१]वनेऽस्मिन्निरतः सदा ।
 चतुरङ्गंह्यपि बलं सुमहत् प्रसहेमहि ॥ ७ ॥

 निरतः-नित्यप्रतिष्ठः । प्रसहेमहीति । परकीयमिति शेषः ॥

 लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वया [२]ऽनघ !
 [३] नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ ८ ॥

 न वयं अत्र-देशे भीताः । अपि तु धर्ममेवानुपश्यता त्वया रक्ष्यमाणा भवामः-त्वद्धर्मपरिपालनाय त्वद्रक्षणामधानुजानीम इत्यर्थः ॥

 कथं दाशरथौ भूमौ शयाने सह सीतया ।
 शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ ९ ॥

 जीवितं वेति । विशिष्टभोजनादिना सुखजीवनमित्यर्थः ॥ ९ ॥

 यो न देवासुरैस्सर्वैः शक्यः प्रसहितुं युधि ।
 तं पश्य [४]सुखसंविष्टं तृणेषु सह सीतया ॥ १० ॥

 प्रसहितुं । 'तिष्ठसह....' इति पाक्षिक इट् ॥ १० ॥

 [५]यो मन्त्रतपसा लब्धो विविधैश्च [६]परिश्रमैः ।
 एको दशरथ[७]स्येष्टः पुत्रः सदृशलक्षणः ॥ ११ ॥

 मन्त्रतपसा-गायत्र्यादिमहामन्त्रानुष्ठानं, कृच्छ्रादिलक्षणं तपश्च तथा । एकः-मुख्यः । सदृशः लक्षणः यस्य स तथा ॥ ११ ॥


  1. वनेऽस्मिंश्वरतः-ङ. च. झ.
  2. न च-ङ,
  3. अत्र देशे वयं न भीताः ; यतो धर्ममेवानुपश्यता त्वया रक्ष्यमाणा भवामः । तथाऽपि जागरणे कारणमाह-कथमिति-ति.
  4. सुखसंसुप्तं-च.
  5. मन्त्रयुक्ततपसा.....परिश्रमैः-यज्ञादिभिः-गो. श्लोकद्वयमेकं वाक्यम् ।
  6. पराक्रमैः-च.
  7. स्यैषः च.