पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
466
[अयोध्याकाण्डः
लक्ष्मणपन्तापः

एकपञ्चाशः सर्गः

[लक्ष्मणसन्तापः]

 तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् ।
 गुहः सन्तापसन्तप्तः राघवं वाक्यमब्रवीत् ॥ १ ॥

 एवं रामे शयाने तद्रक्षायै जाग्रल्लक्ष्मणगुहसंवादः । तमित्यादि । भ्रातुरर्थाय-भ्रातृरक्षणार्थमित्यर्थः । राघवं-रघुकुलजम् ॥ १ ॥

 इयं, तात ! सुखा शम्या त्वदर्थमुपकल्पिता ।
 प्रत्याश्वसिहि साध्वस्यां, राजपुत्र ! यथासुखम् ॥ २ ॥

 प्रत्याश्वसिहि, श्वसेर्हौ रुधादिभ्यः सार्वधातुक इट्-प्रत्याश्वस्तः-विश्रान्तो भवेत्यर्थः ॥ २ ॥

 उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ।
 गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य, वयं निशाम् ॥ ३ ॥

 अयं जन इति । आटविकोऽहमित्यर्थः ॥ ३ ॥

 न हि रामात् [१]प्रियतरो ममास्ति भुवि कश्चन ।
 ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ ४ ॥
 अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः ।
 धर्मावाप्तिं च विपुलां अर्थावाप्तिं च केवलाम् ॥ ५ ॥

 आशंसे-प्रार्थये । अस्य प्रसादादेव केवलमिति योजना ॥ ५ ॥

 सोऽहं प्रियतमं रामं शयानं सह सीतयां ।
 रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिस्सह ॥ ६ ॥


  1. प्रियतमः-ङ.