पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५० सर्गः]
465
तद्रात्रौ राघवः शिश्ये भूमो तत्रैव सीतया

 प्रतिपानमिति । कबलदानानन्तरं राजौपवाह्यजात्याश्वानां यत् क्षीरादिकं प्रतिपाय्यते तत् प्रतिपानम् । दीयतामिति । आदिदेशेति शेषः ॥ ४८ ॥

 ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् ।
 जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ ४९ ॥
 तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
 सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ ५० ॥
 गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन्
 अन्वजाग्रत् ततो रामं अग्रमत्तो धनुर्धरः ॥ ५१ ॥

 अन्वजाग्रदिति शब्दः छान्दसः,अजाग इति यावत् ॥ ५१ ॥

 तथा शयानस्य ततो[१] ऽस्य धीमतः
  यशस्विनो दाशरथेर्महात्मनः ।
 अदृष्टदुःखस्य सुखोचितस्य सा
  [२]तदा व्यतीयाय चिरेण शर्वरी ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चाशः सर्गः


 चिरेणेति । मूशय्यावासनाभावतो निद्रानागमाच्चिरत्वप्रतिभासः । राम (५२) मानः सर्गः ॥ ५२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चाशः सर्गः



  1. यशस्विनः, मनस्विनः-ङ. च.
  2. तदा व्यतीता सुचिरेण च तदा व्यतीयाय सुखेन-ङ.