पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
464
[अयोध्याकाण्डः
गुहसमागमः

 भुजाभ्यां [१]साधु [२]पीनाभ्यां पीडयन् वाक्यमब्रवीत् ॥
 दिष्ट्या त्वां, गुह ! पश्यामि ह्यरोगं सह बान्धवैः ।
 अपि ते कुशलं राष्ट्रे मित्रेषु च [३]वनेषु च ॥ ४३ ॥

 वनेषु च ते कुशलं इति प्रश्नः तस्याटविकत्वात् ॥ ४३ ॥

 [४]यत्त्विदं भवता किश्चित् प्रीत्या समुपकल्पितम् ।
 सर्वं तदनुजानामि [५]न हि वर्ते प्रतिग्रहे ॥ ४४ ॥
 कुशचीराजिनधरं फलमूलाशिनं च माम् ।
 विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ ४५ ॥

 धर्मे प्रणिहितमिति । पितृवाक्यपरिपालनलक्षणे धर्मे सावधानम् ॥

 अश्वानां खादनेनाहं अर्थी नान्येन केन चित् ।
 एतावताऽत्रभवता भविष्यामि सुपूजितः ॥ ४६ ॥
 एते हि दयिता राज्ञः पितुर्दशरथस्य मे ।
 एतैस्सु [६]विहितैरश्वैः भविष्याम्यहमर्चितः ॥ ४७ ॥

 एते हीति । अश्वा इति यावत् ॥ ४७ ॥

 [७]अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् ।
 गुहस्तत्रैव पुरुषान् त्वरितं दीयतामिति ॥ ४८ ॥


  1. साधु पीडयन्-सम्यक् आलिङ्गन् ।
  2. वृत्ताभ्यां-च.
  3. वनेषु-ङ.
  4. यद्विधं-ङ.
  5. प्रतिग्रहे नेदानीं ममाधिकार इति भावः । तदेव विवृणोति-कुशचीरेत्यादि ।
  6. सुखितैः-ङ.
  7. एतद्व्याख्यानरीत्या इदं पूर्वार्धमपि रामसम्बन्धि। अत एवोत्तरार्धे क्रियापदाभावात् 'आदिदेशेति शेषः' इति व्याख्यायि ।