ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् ।
सह सौमित्रिणा रामः समागच्छत् गुहेन सः ॥ ३५ ॥
समागच्छत्-सङ्गतोऽभूत् ॥ ३५ ॥
तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् ।
यथाऽयोध्या तथेदं ते, राम ! किं करवाणि ते भावः ॥ ३६ ॥
ईदृशं हि, महाबाहो ! कः प्राप्स्यत्यतिथिं प्रियम् ।
इदमिति । अस्मत्पुरमिति यावत् ॥ ३६ ॥
ततो गुणवदन्नाद्यं उपादाय पृथग्विधम् ॥ ३७ ॥
अर्ध्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह ।
अन्नं च तत् आद्यं च, ऋहलोर्ण्यत् ॥ ३७ ॥
स्वागतं ते, महाबाहो ! तवेयमखिला मही ॥ ३८ ॥
वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः ।
भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ॥ ३९ ॥
शयनानि च मुख्यानि वाजिनां खादनं च ते ।
वाजिनां खादनं-अश्वघास इति यावत् ॥ ३९ ॥
गुहमेवं ब्रुवाणं तु राघवः प्रत्युवाच ह ॥ ४० ॥
अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ।
पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च ॥ ४१ ॥
पद्भ्यामभिगमात्-स्वपुरादारभ्य स्वावासेङ्गुदीवृक्षपर्यन्तं महाप्रभुरपि सन् यतः पद्भ्यामभिगतोऽसि, यतश्च 'तवेयमस्विला मही 'इत्यादिना स्नेहं च दर्शयसि, तेन हेतुना वयं सर्वथा त्वयाऽर्चिता एवेति प्रत्यभाषतेत्यन्वयः ॥ ४१ ॥