पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
462
[अयोध्याकाण्डः
गुहसङ्गमः

 द्रक्ष्यामः सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम् ।
 देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ २९ ॥
 लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् ।
 उक्त्त्वा तमिङ्गुदीवृक्षं तत्रोपययतुर्हयैः ॥ ३० ॥

 तं इङ्गुदीवृिक्षं तत्र-गङ्गातीरे प्रतिष्ठितमुद्दिश्य प्रवर्तितैर्हयैः ययतुः ॥

 रामोऽभीयाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः ।
 रथादवातरत्तस्मात् सभार्यः सहलक्ष्मणः ॥ ३१ ॥
 सुमन्त्रोऽप्यवतीर्यास्मात् मोचयित्वा हयोत्तमान् ।
 वृक्षमूलगतं रामं उपतस्थे कृताञ्जलिः ॥ ३२ ॥
 तत्र राजा गुहो नाम रामस्यात्मसमः सखा ।
 निषादजात्यो बलवान् स्थपतिथेति विश्रुतः ॥ ३३ ॥

 आत्मसमः-प्राणसमः । निषादजातौ भवः-निषादजात्यः, दिगादित्वात् यत् । बलवान्-प्राणीयबलवान्, चतुरङ्गबलवांश्च । तदेतदुच्यते-स्थपतिरिति । स्थपतिः-अधिपतिः-निषादबलाधिपतिः । 'स्थपतिः पुनः । स्थापत्येऽधिपतौ तक्ष्णि' इति वैजयन्ती । एवञ्चास्य महाप्रभुत्वात् मूलभृतकादिषड्विधबलसङ्ग्रहस्य च राजधर्मत्वात् अस्य गुहस्य चाटविकमहाबलवत्त्वात् एतद्दशायामेव तेनाटविकबलेन चातिप्रयोजनत्वात् सख्यं-स्नेहो युक्त एव । ततश्च 'हीनप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्' इत्युपपातकपरिगणनं ब्राह्मणविषयम् ॥ ३३ ॥

 स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।
 वृद्धैः परिवृतोऽमात्यैः ज्ञातिभिश्चाप्युपागतः ॥ ३४ ॥

 विषयं-स्वदेशम् ॥ ३४ ॥