पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५० सर्गः]
461
स तत्रस्थेङ्गुदीवृक्षमूळे विश्रान्तिमन्वभूत्

 प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ॥ २३ ॥
 [१]फलमूलैः किसलयैः वृतां गुल्मैः द्विजैस्तथा ।

 फलमूलैः किसलयैः-तदात्मकैरेव भूषणैः-अलङ्कारैः भूषिताम् ॥

 शिशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् ॥ २४ ॥
 [२]विष्णुपादच्युतां दिव्यां अपापां पापनाशिनीम् ।

 'शिशुमारस्त्वम्बुकपिः' ॥ २४ ॥

 तां शङ्करजटाजूटात् भ्रष्टां [३]सागरतेजसा ॥ २५ ॥
 समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् ।
 आससाद महाबाहुः [४]शृङ्गवेरपुरं प्रति ॥ २६ ॥

 शृङ्गबेरपुरं प्रतीति। प्रस्थितामिति शेषः ॥ २६ ॥

 तामूर्मिकलिलावर्ता अन्ववेक्ष्य महारथः ।
 सुमन्त्रमब्रवीत् सूतं इहैवाद्य वसामहे ॥ २७ ॥

 ऊर्मिभिः कलिलाः-संपृक्ताः आवर्ताः यस्यां सा तथा ॥ २७॥

 अविदूरादयं नद्याः बहुपुष्पप्रवालवान् ।
 सुमहान् इङ्गुदीवृक्षः वसामोऽत्रैव, सारथे ! ॥ २८ ॥

 नद्या अविदूराद्धेतोः बहुपुष्पप्रचालवान् । 'इङ्गुदी तापसतरुः xxxxxxx(?)॥ २८ ॥


  1. फलैः पुष्पैः-ङ.
  2. विष्णुपादस्पर्शेन ब्रह्मलोकात् ब्रह्माण्डबाह्यजलदेशाञ्च च्युतां, अपापां-कर्म-नाशादिवत् केनापि प्रकारेण पापजनकत्वाभाववतीमिति कतक्रः-इति तिलके उद्धृतं वर्तते । परन्त्वस्मदुपलब्धमातृकायां अयं भागो नोपलभ्यते ।
  3. सागरः-भगीरथः तस्य तेजसा-महिम्ना भ्रष्टामित्यन्वयः ।
  4. शृङ्गबेरपुरं प्रतिगच्छन्, यद्वा शृङ्गबेरपुरसमीपे-गो.