पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
460
[अयोध्याकाण्डः
गुहसङ्गमः

 [१] देवसङ्घाप्लुजलां निर्मलोत्पलशोभिताम्
 [२]क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ १८ ॥

 आभोगपुलिनां-विशालसैकताम् । वालुका-सिकता ॥ १८ ॥

 हंससारसङ्घुष्टां चक्रवाकोपकूजिताम् ।
 सदा मत्तैश्च विहगैः अभिपन्नामनिन्दिताम् ॥ १९ ॥
 [३]क्वचित्तीररुहैवृक्षैः मालाभिरुपशोभिताम् ।
 क्वचित् फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ॥ २० ॥
 क्वचित् कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् ।

 कुड्मलैः कुमुदषण्डैरिति योजना ॥ २० ॥

 नानापुष्परजोध्वस्तां समदामिव च क्वचित् ॥ २१ ॥

 नानापुष्परजसां ध्वस्तः-ध्वंसः, भावे निष्ठा, यस्यां सा तथा । अतस्तादृशगुणवर्ती समदां-मदसहितां प्रमदामिव स्थिताम् ॥ २१ ॥

 व्यपेत[४]जलसङ्घातां मणिनिर्मलदर्शनाम् ।

 व्यपेतजलसङ्घातां-उत्तीरप्रवाहरहितामिति यावत् । मणिः-मुक्तामणिः ॥

 दिशागजैर्वनगजैः मत्तैश्च वरवारणैः ॥ २२ ॥
 [५] [६]देवौपवाद्यैश्च मुहुः सन्नादितवनान्तराम् ।

 वरवारणैः-उत्तमगजैः । देवाः-राजानः तेषामौपवाद्यैः-[७]पौर-गजैरिति यावत् ॥


  1. आप्लवः-स्नानं "आप्लाव आप्लवः स्नानं इत्यमरः ; देवसः आप्लुतं जलं यस्याः सा तथा
  2. 'आभोगः परिपूर्णता' इत्यमरः ।
  3. मालाग्निरिव स्थितैः वृक्षैरित्यन्वयः ।
  4. मल-ङ, च.
  5. देवोपवाह्यैः-देवानां वाहनभूतैः-गो.
  6. देवराजोपवायैः-च.
  7. वर-ट.