पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५० सर्गः]
459
एवं गच्छन् स रामस्तु प्राप गङ्गां सरिद्वराम्

 देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।
 [१]नागगन्धर्वपत्नीभिः सेवितां [२]सततं [३]शिवाम् ॥ १४ ॥

 नागपत्न्यः, गन्धर्वपत्न्यश्च तथा ॥ १४ ॥

 देवाक्रीड[४]शतोपेतां देवोद्यान[५]युतां नदीम् ।
 देवार्थमाकाश[६]गतां विख्यातां देवपद्मिनीम् ॥ १५ ॥

 देवानामाक्रीडैः-क्रीडापर्वतशतैः हिमवदादावुभयतीरवर्तिभिः उपेतां । प्राग्वदेव-देवोद्यानयुतां । देवार्थं-देवानां स्नानपानादिप्रयोजनाय तत्प्रार्थनया आकाशगतां । तत्र प्रदेशे देवपाद्मिनीं-देवः-भगवान् हिरण्यगर्भः, तदीयं पद्मं -स्वर्णपद्मं, तदर्थं तद्वतीमित्यर्थः ॥ १५ ॥

 [७]जलाघाताट्टगृहासोग्रां फेननिर्मलहासिनीम् ।
 क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् मुक्तामणिः ॥ १६ ॥

 शिलादिपतनस्थले योऽयं जलाघातः सशब्दः-तद्रूपेणाट्टहासेन उग्रां ; सशब्दः शूरादिक्रियमाणः हासः-अट्टहासः । फनरूपः निर्मलः हासः मन्दस्मितरूपः अस्या अस्तीति तथा । एवमादिस्त्रीसमाधिवर्णनं प्रवाहरूपिण्या अपि गङ्गायाः ॥ १६ ॥

 क्वचित् स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम् ।
 क्वचित् गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ १७ ॥

 स्तिमिता-निश्चला गम्भीरा-अगाधा च तथा । गम्भीरनिर्घोषो मृदङ्गादेवि, भैरवनिस्वनस्त्वशन्यादेरिव ॥ १७ ॥


  1. नाना-ङ.
  2. 'भुक्त्वा वा यदि वाऽभुक्त्वा रात्रौ वा यदि वा दिवा । कश्चित् गङ्गां प्राप्य सरिद्वराम् । इति वचनात् सततं शुभाम् ॥ ' ति.
  3. शुभां-ङ.
  4. शताकीर्णां-ङ.च.
  5. शतायुताम्-ङ.
  6. गमां-ङ.
  7. गङ्गां स्त्रीत्वेन रूपयति- जलाघातेत्यादिना-गो.