पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
458
[अयोध्याकाण्डः
गुहसङ्गमः

 उद्यानाम्रवणोपेतान् संपन्नसलिलाशयान् ।
 तुष्टपुष्टजनाकीर्णान् [१]गोकुलाकुलसेवितान् ॥ ९ ॥

 [२]गोकुलैः आकुलतया-निबिडतया सेवितास्तथा ॥ ९ ॥

  [३][४]रक्षणीयान् नरेन्द्राणां ब्रह्मघोषानुनादितान् ।
 रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥ १० ॥

 रक्षणीयान् नरेन्द्राणामिति । 'कृत्यानां कर्तरि वा' इति षष्ठी, नरेन्द्ररित्यर्थः ॥ १० ॥

 [५]मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् ।
 राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः ॥ ११ ॥

 राज्यं मध्येन ययौ-मध्यगत्यवलम्बनेन ययौ, स्वदेशस्वजनानु-नयाशङ्काभावात् शनैर्देशसौभाग्यं पश्यन् अगमदित्यर्थः ॥ ११ ॥

 तत्र त्रिपथगां दिव्यां [६]शिवतोयामशैवलाम् ।
 ददर्श राघवो गङ्गां [७]पुण्यामृषिनिषेविताम् ॥ १२ ॥

 तत्रेति । अयोध्याराज्याद्दक्षिणराज्य इत्यर्थः ॥ १२ ॥

 आश्रमैरविदूरस्थैः श्रीमद्भिस्समलङ्कृताम् ।
 कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोहृदां शिवाम् ॥ १३ ॥

 काले क्रीडाकाल इति यावत् । सेविताः अम्भःपूर्णहृदा यस्यां सा तथा ॥ १३ ॥


  1. सदा गोकुल-ङ.
  2. गोकुलैराकुलं यथा तथा सेविता इति विग्रहः ।
  3. नरेन्द्राणां लक्षणीयान्, एकैकश नगरसदृशत्वेन लक्षयितुं योग्यान्-गो., ती.। नरेन्द्राणां रक्षणीयान्, ग्रामश इति शेषः । नरेन्द्ररक्षणयोग्यैकग्रामान्, इतरनरेन्द्रराज्यतुल्यै-कग्रामानिति यावत्-ति ।
  4. लक्षणीयान्-ङ.
  5. मध्येन-मार्गेण-गो.
  6. शीततोया-च.
  7. रम्या-च.