पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५० सर्गः
475
अतीत्य कोसलान् रामः दक्षिणाभिमुखो ययौ

 ततो रुधिरताम्राक्षः भुजमुद्यम्य दक्षिणम् ।
 अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ ४ ॥

 जानपदं-जनपदे भवं जानपदम्, स्वदर्शनार्थं तत्रागतमिति शेषः ॥ ४ ॥

 अनुक्रोशो दया चैव यथार्हं मायि वः कृतः ।
 [१]चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ ५ ॥

 यथार्हं मयि कृतः यः अनुक्रोशः-अनुतापः दया च अतिपापीयः तदिदं सर्वं वः चिरं दुःखस्य संपन्नं बत ! किं कुर्म इदानीम् ? गम्यतामर्थ-सिद्धये-प्रकृतार्थसिद्धये, साधयाम इति शेषः ॥ ५ ॥

 तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ।
 विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित् क्वचित् ॥ ६॥

 त इति । एवं रामेण विसर्जिता इत्यर्थः ॥ ६ ॥

 तथा विलपतां तेषां [२]अतृप्तानां च राघवः ।
 अचक्षुर्विषयं प्रायात् यथाऽर्कः क्षणदामुखे ॥ ७ ॥

 अतृप्तानामिति । दर्शनतृप्तिरहितानामित्यर्थः । क्षणदामुलेखे-सायंकाले ॥ ७ ॥

 ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।
 अकुतश्चिद्भयान् [३]रम्यांश्चैत्ययूपसमावृतान् ॥ ८ ॥

 एवं कोसलजनपदप्रजानिवर्तनानन्तरं वैभववर्णनपूर्वकं तदतिवाहः प्रदर्श्यते-ततो धान्येत्यादि । दानशीला नरा येषु ते तथा । चैत्ये-ग्रामाद्वहिःप्रदेशे प्रतिष्ठापितैः यूपैः समावृतास्तथा ॥ ८ ॥


  1. दुःखस्य चिरं-विलम्बः-पापीयः-न युक्तमित्यर्थः ।
  2. स्वेवामनुगमनानभ्युप-गमात् अतृप्तानाम् ।
  3. चैत्यं-अग्निशाला ।