पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
456
[अयोध्याकाण्डः
गुहसङ्गमः

 स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा ।
 तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः


 तं तमर्थमभिप्रेत्य-विषयीकृत्य उदीरयन् तमध्वानमतिययौ । तर्क (१६) मानः सर्गः (१) ॥ १७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनपञ्चाशः सर्गः


पञ्चाशः सर्गः

[गुहसङ्गमः]

 विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः ।
 अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥

 एवं स्वदेशातिवाहनानन्तरं जन्मभूमिप्रयुक्तस्नेहस्वपुरदेवतामापृच्छ्य शनैर्गङ्गाप्राप्तिपूर्वकं गुहसम्बन्धः । विशालानित्यादि । कोसलानिति । अतीत्येति शेषः ॥ १ ॥

 [१]आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते !
 दैवतानि च यानि त्वां [२]पालितानि वसन्ति च ॥ २ ॥
 निवृत्तवनवासस्त्वां अनृणो जगतीपतेः ।
 पुनद्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ॥ ३ ॥

 हे पुरिश्रेष्ठे-अयोध्याधिदेवते इति यावत् । यानि च दैवतानि त्वया पालितानि त्वयि वसन्ति शिवविष्ण्वादीनि, तानि त्वां च पुनर्द्रक्ष्यामीत्यन्वयः ॥ ३ ॥


  1. आपृच्छे-अनुशां प्रार्थयामि ।
  2. पालयन्त्या-सर्वत्र,