पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९ सर्गः]
455
पश्यन् ग्रामाननेकान् सः स्वराज्यान्तं समाययौ

यन्त्येव । तथा ह्युक्तम्-'राजवंशान् शतगुणान् स्थापयिष्यति राघवः' इति ॥ १२ ॥

 सूत ! इत्येव चाभाष्य सारथिं तमभक्षिणशः ।
 हंसमत्तस्वरः श्रीमान् उवाच पुरुषोत्तमः ॥ १३ ॥
 कदाऽहं पुनरागम्य सरय्वाः पुष्पिते वने ।
 मृगयां पर्यटिष्यामि मात्रा पित्रा च सम्मतः ॥ १४ ॥

 पुनरागम्येति । अतिवाहितं स्वदेशमिति शेषः ॥ १४ ॥

 राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगयां वने ।
 काले वृतां तां मनुजैः धन्विनामभिकाङ्क्षिताम् ॥ १५ ॥

 कदा मृगयां पर्यटिष्यामीति कथमिदं व्यसनमिच्छसीत्यत्राह-राजर्षीणामित्यादि । काले-मृगयोचितग्रीष्मादिकाले धन्विभिर्मनुजैः वृतां-तैरभिकाङ्क्षितां वने मृगयां राजर्षीणामपि अस्मिन् लोके रत्यर्थं हि स्मरन्तीति शेषः । इयमेव स्मृतिः-हिशब्देन प्रसिद्धिवाचिना द्योत्यते । तर्हि 'स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम्' इत्युक्तलक्षणव्यसननिषेधः कथम् ? तदा-भीक्ष्ण्यप्रवृत्तेरेव प्रजाचिन्तादिवैमुख्यकारिण्या निषेधः, न तूक्तव्यसन मात्रस्य, 'तस्याः सभाया मध्ये देवनमुद्धृत्यावोक्ष्याक्षान्निवेपेत्' इत्यादितो द्यूतादेश्शास्त्रेण स्वकृत्याविरोधिनोऽव्यसनस्य लीलार्थमनुमतत्वात् ॥

 नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने ।
 रतिर्होषाऽतुला लोके राजर्षिगणसम्मता ॥ १६ ॥

 तदेवाह-नात्यर्थमित्यादि । एषा-कदाचित् मृगया यथाकालप्रवृत्तिः राजर्षिगणसम्मता अतुला रतिः-क्रीडा । अस्या अध्यनुमतिः 'गजादयो न हन्तव्याः मृगयायां' इत्यादिना शास्त्रेण । सामान्यतो मृगयाऽनुमता ॥ १६ ॥