पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
454
[अयोध्याकाण्डः
जानपदाकोशः

 ततो वेदश्रुतिं नाम [१]शिववारिवहां नदीम् ।
 उत्तीर्याभिमुखः प्रायात् अगस्त्याध्युषितां दिशम् ॥ ९ ॥

 शिवानि वारीणि यस्यास्सा-शिववारिः ॥ ९ ॥

 गत्वा तु सुचिरं कालं ततः शिवजलां नदीम् ।
 गोमतीं गोयुतानूपां अतरत् सागरंगमाम् ॥ १० ॥

 गोभिर्युताः आनूपाः-कच्छाः यस्यां सा तथा । सागरं-गमामिति । 'गमेः सुप्युपसंख्यानं' इति खचि रूपम् ॥ १० ॥

 गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः ।
 मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ ११ ॥

 स्यन्दिकां-स्यन्दिकाख्याम् ॥ ११ ॥

 स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।
 स्फीतां राष्ट्रावृतां रामः वैदेहीमन्वदर्शयत् ॥ १२ ॥

 स महीमिति । अतीतस्यन्दिकानदीकः स रामः महीं-स्यन्दिकासीमाक-कोसलदेशं राष्ट्रावृतां-अवान्तरजनपदावृतां, वैदेही-मन्वदर्शयत्-एतत्सीमाकोऽयं कोसलदेशो मनुना-अस्मद्वंशकूटस्थेन अस्मद्वंश्यायेक्ष्वाकवे दत्त इति स्वदेशसीमाप्रदर्शनपूर्वकं कथयामासेत्यर्थः । यद्यपीक्ष्वाकुप्रमुखाः सार्वभौमाः, तथापि तेषां स्वजन्मभूमिस्व देशस्वराजधानीत्वाद्यभिमानास्पदत्वं अयोध्यादेशस्यैव । तर्हि सार्व-भौमत्वं कथम् ? ततद्देशसिह्मासनपीठाधिष्ठातृमकुटवर्धनमहाराज- परिपालनीयस्वशासनत्वं, सर्वतः करग्राहित्वमेव च । न तु कालीवत् तत्तद्देशराजपीठं अबलमस्तीति कृत्वा विनाशयन्ति, अपि प्रतिष्ठाप-


  1. शिवतोय-ङ.